अथर्ववेद - काण्ड 6/ सूक्त 34/ मन्त्र 4
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
स्वर सहित पद पाठय: । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । स: । न॒: । प॒र्ष॒त् । अति॑। द्विष॑: ॥३४.४॥
स्वर रहित मन्त्र
यो विश्वाभि विपश्यति भुवना सं च पश्यति। स नः पर्षदति द्विषः ॥
स्वर रहित पद पाठय: । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति । स: । न: । पर्षत् । अति। द्विष: ॥३४.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 34; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यः) परमेश्वरः (विश्वा) सर्वाणि (अभि) सर्वतः (विपश्यति) पृथक् पृथगवलोकयति (भुवना) भुवनानि (च) (सम् पश्यति) संगतानि निरीक्षते ॥
इस भाष्य को एडिट करें