Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 43/ मन्त्र 2
सूक्त - भृग्वङ्गिरा
देवता - मन्युशमनम्
छन्दः - अनुष्टुप्
सूक्तम् - मन्युशमन सूक्त
अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति। द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ॥
स्वर सहित पद पाठअ॒यम् । य: । भूरि॑ऽमूल: । स॒मु॒द्रम् । अ॒व॒ऽतिष्ठ॑ति । द॒र्भ: । पृ॒थि॒व्या: । उत्थि॑त: । म॒न्यु॒ऽशम॑न: । उ॒च्य॒ते॒ ॥४३.२॥
स्वर रहित मन्त्र
अयं यो भूरिमूलः समुद्रमवतिष्ठति। दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥
स्वर रहित पद पाठअयम् । य: । भूरिऽमूल: । समुद्रम् । अवऽतिष्ठति । दर्भ: । पृथिव्या: । उत्थित: । मन्युऽशमन: । उच्यते ॥४३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 43; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अयम्) (यः) दर्भः (भूरिमूलः) मूल प्रतिष्ठायां रोपणे च−क बहुप्रतिष्ठितः सन् (समुद्रम्) अ० १।३।८। अन्तरिक्षम्−निघ० १।३। (अवतिष्ठति) व्याप्य वर्तते (दर्भः) म० १। सुकर्मणां ग्रन्थकः (पृथिव्याः) भूमेः सकाशात् (उत्थितः) उपरि स्थितः सन्। अन्यत्पूर्ववत् ॥
इस भाष्य को एडिट करें