Loading...
अथर्ववेद > काण्ड 6 > सूक्त 55

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 55/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - रुद्रः छन्दः - त्रिष्टुप् सूक्तम् - सौम्नस्य सूक्त

    ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद्व॒र्षाः स्वि॒ते नो॑ दधात। आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद्वः॑ शर॒णे स्या॑म ॥

    स्वर सहित पद पाठ

    ग्री॒ष्म: । हे॒म॒न्त: । शिशि॑र: । व॒स॒न्त: । श॒रत् । व॒र्षा: । सु॒ऽइ॒ते । न॒: । द॒धा॒त॒ । आ । न॒: । गोषु॑ । भज॑त । आ । प्र॒ऽजाया॑म् । नि॒ऽवा॒ते । इत् । व॒: । श॒र॒णे । स्या॒म॒ ॥५५.२॥


    स्वर रहित मन्त्र

    ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात। आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥

    स्वर रहित पद पाठ

    ग्रीष्म: । हेमन्त: । शिशिर: । वसन्त: । शरत् । वर्षा: । सुऽइते । न: । दधात । आ । न: । गोषु । भजत । आ । प्रऽजायाम् । निऽवाते । इत् । व: । शरणे । स्याम ॥५५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 55; मन्त्र » 2

    टिप्पणीः - २−(ग्रीष्मः) घर्मग्रीष्मौ। उ० १।१४९। इति ग्रसु अदने−मक्, ग्रीभावः षुगागमश्च। निदाघः। ज्येष्ठाषाढात्मकः कालः (हेमन्तः) अ० ३।११।४। आग्रहायणपौषात्मकः कालः (शिशिरः) अजिरशिशिर०। उ० १।५३। इति शश प्लुतगतौ−किरच्, उपधाया इत्वम्। माघफाल्गुनमासात्मकशीतान्तः कालः (वसन्तः) अ० ३।११।४। चैत्रवैशाखात्मकः पुष्पकालः (शरत्) अ० १।१०।२। आश्विनकार्तिकात्मकः कालः (वर्षाः) वर्ष वर्षणमस्त्यासु। वर्ष−अर्शआदिभ्योऽच्, टाप्। यद्वा। व्रियन्ते। वृतॄवदि०। उ० ३।६२। इति वृञ् वरणे−स, टाप्। श्रावणभाद्रात्मको मेघकालः (स्विते) सुष्ठु प्राप्ते कुशले (नः) अस्मान् (दधात) धत्त। स्थापयत (आ) समुच्चये (नः) अस्मान् (गोषु) गवादिपशुषु (भजत) भागिनः कुरुत (आ) समन्तात् (प्रजायाम्) पुत्रपौत्रभृत्यादिरूपे जने (निवाते) वा गतिहिंसनयोः−क्त। अहिंसिते (इत्) एव (वः) युष्माकम् (शरणे) रक्षणे (स्याम) भवेम ॥

    इस भाष्य को एडिट करें
    Top