Loading...
अथर्ववेद > काण्ड 6 > सूक्त 63

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 63/ मन्त्र 3
    सूक्त - द्रुह्वण देवता - मृत्युः छन्दः - जगती सूक्तम् - वर्चोबलप्राप्ति सूक्त

    अ॑य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्। य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ॥

    स्वर सहित पद पाठ

    अ॒य॒स्मये॑ । द्रु॒ऽप॒दे । बे॒धि॒षे॒ । इ॒ह । अ॒भिऽहि॑त: । मृ॒त्युऽभि॑: । ये । स॒हस्र॑म् । य॒मेन॑ । त्वम् । पि॒तृऽभि॑: । स॒म्ऽवि॒दा॒न: । उ॒त्ऽत॒मम् । नाक॑म् । अधि॑ । रो॒ह॒य॒ । इ॒मम् ॥६३.३॥


    स्वर रहित मन्त्र

    अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम्। यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥

    स्वर रहित पद पाठ

    अयस्मये । द्रुऽपदे । बेधिषे । इह । अभिऽहित: । मृत्युऽभि: । ये । सहस्रम् । यमेन । त्वम् । पितृऽभि: । सम्ऽविदान: । उत्ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥६३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 63; मन्त्र » 3

    टिप्पणीः - ३−(अयस्मये) अयोमये (द्रुपदे) दारुनिर्मिते पादबन्धने (बेधिषे) बन्ध बन्धने कर्मणि−लट्। छन्दस्युभयथा। पा० ३।४।११७। इति सार्वधातुकार्धधातुकत्वाद् नलोपः, यगभाव इडागमश्च, छान्दसमेत्वम्। बध्यसे बद्धो भवसि (इह) अस्मिन् लोके (अभिहितः) अभिपूर्वो दधातिर्बन्धने। वेष्टितः (मृत्युभिः) मरणकारणैः। महाकष्टैः (ये) (सहस्रम्) अनेकविधम् (यमेन) नियमेन (त्वम्) मनुष्यः (पितृभिः) पालकैर्महात्मभिः (संविदानः) अ० २।२८।२। संगच्छमानः (उत्तमम्) श्रेष्ठम् (नाकम्) अ० १।९।२। दुःखरहितं कं सुखम् (अधि रोहय) उपरि प्रापय (इमम्) आत्मानम् ॥

    इस भाष्य को एडिट करें
    Top