Loading...
अथर्ववेद > काण्ड 6 > सूक्त 65

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 65/ मन्त्र 1
    सूक्त - अथर्वा देवता - चन्द्रः छन्दः - पथ्यापङ्क्तिः सूक्तम् - शत्रुनाशन सूक्त

    अव॑ म॒न्युरवाय॒ताव॑ बा॒हू म॑नो॒युजा॑। परा॑शर॒ त्वं तेषां॒ परा॑ञ्चं॒ शुष्म॑मर्द॒याधा॑ नो र॒यिमा कृ॑धि ॥

    स्वर सहित पद पाठ

    अव॑ । म॒न्यु: । अव॑ । आऽय॑ता । अव॑ । बा॒हू इति॑ । म॒न॒:ऽयुजा॑ । परा॑ऽशर । त्वम् । तेषा॑म् । परा॑ञ्चम् । शुष्म॑म् । अ॒र्द॒य॒ । अध॑ । न॒: । र॒यिम् । आ । कृ॒धि॒ ॥६५.१॥


    स्वर रहित मन्त्र

    अव मन्युरवायताव बाहू मनोयुजा। पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥

    स्वर रहित पद पाठ

    अव । मन्यु: । अव । आऽयता । अव । बाहू इति । मन:ऽयुजा । पराऽशर । त्वम् । तेषाम् । पराञ्चम् । शुष्मम् । अर्दय । अध । न: । रयिम् । आ । कृधि ॥६५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 65; मन्त्र » 1

    टिप्पणीः - १−(अव) अवगच्छतु (मन्युः) क्रोधः (अव) अवगच्छन्तु (आयता) आयतानि प्रसारितानि शस्त्राणि (अव) अवगच्छताम् (बाहू) भुजौ (मनोयुजा) सत्सूद्विषद्रुहदुहयुज०। पा० ३।२।६१। इति मनः+युजिर् योगे−क्विप्। मनसा संयोजकौ (पराशर) परागत्य शृणाति शत्रून्। ॠदोरप्। पा० ३।३।५७। इति परा+शॄ हिंसायाम्−अप्। इन्द्रोऽपि पराशर उच्यते परशातयिता यातूनाम्−निरु० ६।३०। हे शत्रुनाशक वीर सेनापते (त्वम्) (तेषाम्) शत्रूणाम् (पराञ्चम्) पराङ्मुखं कृत्वा (शुष्मम्) शोषकं बलम् (अर्दय) नाशय (अव) अथ। अनन्तरम् (रयिम्) धनम् (आ कृधि) अभिमुखं कुरु ॥

    इस भाष्य को एडिट करें
    Top