Loading...
अथर्ववेद > काण्ड 6 > सूक्त 66

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 66/ मन्त्र 2
    सूक्त - अथर्वा देवता - चन्द्रः, इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    आ॑तन्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ। निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ऽद्य परा॑शरीत् ॥

    स्वर सहित पद पाठ

    आ॒ऽत॒न्वा॒ना: । आ॒ऽयच्छ॑न्त: । अस्य॑न्त: । ये । च॒ । धाव॑थ । नि:ऽह॑स्ता: । श॒त्र॒व॒: । स्थ॒न॒ । इन्द्र॑: । व॒: । अ॒द्य । परा॑ । अ॒श॒री॒त् ॥६६.२॥


    स्वर रहित मन्त्र

    आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ। निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत् ॥

    स्वर रहित पद पाठ

    आऽतन्वाना: । आऽयच्छन्त: । अस्यन्त: । ये । च । धावथ । नि:ऽहस्ता: । शत्रव: । स्थन । इन्द्र: । व: । अद्य । परा । अशरीत् ॥६६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 66; मन्त्र » 2

    टिप्पणीः - २−(आतन्वानाः) धनूंषि बाणान् च अनुसंदधतः (आयच्छन्तः) तरवारीन् आकर्षन्तः (अस्यन्तः) निक्षिपन्तः (ये) शत्रवः (च) (धावथ) शीघ्रं गच्छथ (निर्हस्ताः) लुप्तहस्तबलाः (शत्रवः) अरयः (स्थन) तप्तनप्तनथनाश्च। पा० ७।१।४५। इति अस्तेर्लोटि तस्य थनादेशः। भवत (इन्द्रः) सेनापतिः (वः) युष्मान् (अद्य) अस्मिन् दिने (परा अशरीत्) शॄ हिंसायाम्−लुङ्। पराहतान् कृतवान् ॥

    इस भाष्य को एडिट करें
    Top