Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 73/ मन्त्र 2
सूक्त - अथर्वा
देवता - सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
यो वः॒ शुष्मो॒ हृद॑येष्व॒न्तराकू॑ति॒र्या वो॒ मन॑सि॒ प्रवि॑ष्टा। तान्त्सी॑वयामि ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥
स्वर सहित पद पाठय: । व॒: । शुष्म॑: । हृद॑येषु । अ॒न्त: । आऽकू॑ति: । या । व॒: । मन॑सि । प्रऽवि॑ष्टा । तान् । सी॒व॒या॒मि॒ । ह॒विषा॑ । घृ॒तेन॑ । मयि॑ । स॒ऽजा॒ता॒: । र॒मति॑: । व॒: । अ॒स्तु॒ ॥७३.२॥
स्वर रहित मन्त्र
यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा। तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥
स्वर रहित पद पाठय: । व: । शुष्म: । हृदयेषु । अन्त: । आऽकूति: । या । व: । मनसि । प्रऽविष्टा । तान् । सीवयामि । हविषा । घृतेन । मयि । सऽजाता: । रमति: । व: । अस्तु ॥७३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 73; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यः) (वः) युष्माकम् (शुष्मः) पराक्रमः। बलम् निघ० २।९। (हृदयेषु) विषयाणां ग्रहणशीलेषु चित्तेषु (अन्तः) मध्ये (आकूतिः) उत्साहः। शिवसंकल्पः (या) (वः) (मनसि) मननसाधने। अन्तःकरणे (प्रविष्टा) अन्तर्गता (तान्) तथाविधान् युष्मान् (सीवयामि) षेवृ सेवायाम्, एकारस्य ईत्वं चुरादित्वं च छान्दसम्। अहं सेवे। शुश्रूषयामि (हविषा) हव्येन देवयोग्यान्नेन (घृतेन) उदकेन−निघ० १।१२। (मयि) उपासके (सजाताः) हे समानजन्मानो बान्धवाः (रमतिः) रमेर्नित्। उ० ४।६३। इति रमु क्रीडायाम्−अति। क्रीडा। मनःप्रसन्नता (वः) युष्माकम् (अस्तु) भवतु ॥
इस भाष्य को एडिट करें