Loading...
अथर्ववेद > काण्ड 6 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 77/ मन्त्र 3
    सूक्त - कबन्ध देवता - जातवेदा अग्निः छन्दः - अनुष्टुप् सूक्तम् - प्रतिष्ठापन सूक्त

    जात॑वेदो॒ नि व॑र्तय श॒तं ते॑ सन्त्वा॒वृतः॑। स॒हस्रं॑ त उपा॒वृत॒स्ताभि॑र्नः॒ पुन॒रा कृ॑धि ॥

    स्वर सहित पद पाठ

    जात॑ऽवेद: । नि । व॒र्त॒य॒ । श॒तम् । ते॒ । स॒न्तु॒ । आ॒ऽवृत॑: । स॒हस्र॑म् । ते॒ । उ॒प॒ऽआ॒वृत॑: । ताभि॑: । न॒: । पुन॑: । आ । कृ॒धि॒ ॥७७.३॥


    स्वर रहित मन्त्र

    जातवेदो नि वर्तय शतं ते सन्त्वावृतः। सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥

    स्वर रहित पद पाठ

    जातऽवेद: । नि । वर्तय । शतम् । ते । सन्तु । आऽवृत: । सहस्रम् । ते । उपऽआवृत: । ताभि: । न: । पुन: । आ । कृधि ॥७७.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 77; मन्त्र » 3

    टिप्पणीः - ३−(जातवेदः) जातानि वेदांसि धनानि यस्य तत्संबुद्धौ हे महाधनिन् पुरुष (नि वर्तय) निवृत्य आगच्छ (शतम्) बहुसंख्याकाः (ते) तव (सन्तु) (आवृतः) वृतु−क्विप्। आवर्तनानि। आगमनोपायाः (सहस्रम्) बहुप्रकाराः (ते) (उपावृतः) समीपदेशप्राप्त्युपायाः (ताभिः) आवृद्भिरुपावृद्भिश्च (नः) अस्मान् (पुनः) अवधारणे (आकृधि) स्वीकुरु ॥

    इस भाष्य को एडिट करें
    Top