Loading...
अथर्ववेद > काण्ड 6 > सूक्त 79

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 79/ मन्त्र 3
    सूक्त - अथर्वा देवता - संस्फानम् छन्दः - त्रिपदा प्राजापत्या जगती सूक्तम् - ऊर्जा प्राप्ति सूक्त

    देव॑ सं॒स्फान॑ सहस्रापो॒षस्ये॑शिषे। तस्य॑ नो रास्व॒ तस्य॑ नो धेहि॒ तस्य॑ ते भक्ति॒वांसः॑ स्याम ॥

    स्वर सहित पद पाठ

    देव॑ । स॒म्ऽस्फा॒न॒ । स॒ह॒स्र॒ऽपो॒षस्य॑ । ई॒शि॒षे॒ । तस्य॑ । न॒: । रा॒स्व॒ । तस्य॑ । न: । धे॒हि॒ । तस्य॑ । ते॒ । भ॒क्ति॒ऽवांस॑: । स्या॒म॒ ॥७९.३॥


    स्वर रहित मन्त्र

    देव संस्फान सहस्रापोषस्येशिषे। तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवांसः स्याम ॥

    स्वर रहित पद पाठ

    देव । सम्ऽस्फान । सहस्रऽपोषस्य । ईशिषे । तस्य । न: । रास्व । तस्य । न: । धेहि । तस्य । ते । भक्तिऽवांस: । स्याम ॥७९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 79; मन्त्र » 3

    टिप्पणीः - ३−(देव) हे प्रकाशमय (संस्फान) सम्+स्फायी वृद्धौ-क्त, छान्दसं रूपम्। हे सम्यक् स्फीत। प्रवृद्ध (सहस्रपोषस्य) अपरिमितपोषणस्य (ईशिषे) ईश्वरो भवसि (तस्य) पोषस्य (नः) अस्मभ्यम् (रास्व) दानं कुरु (तस्य) (नः) (धेहि) धारणं कुरु (तस्य) तथाविधस्य (ते) तव, परमेश्वरस्य (भक्तिवांसः) छन्दसीवनिपौ च वक्तव्यौ। वा० पा० ५।२।१०९। इति भक्ति−वनिप् मत्वर्थे, सकारोपजनश्छान्दसः। भक्तिमान् श्रद्धावन्तः (स्याम) भवेम ॥

    इस भाष्य को एडिट करें
    Top