Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 85/ मन्त्र 1
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मानाशन सूक्त
व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑। यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ॥
स्वर सहित पद पाठव॒र॒ण: । वा॒र॒या॒तै॒ । अ॒यम् । दे॒व:। वन॒स्पति॑: । यक्ष्म॑: । य: । अ॒स्मिन् । आऽवि॑ष्ट: । तम् । ऊं॒ इति॑ । दे॒वा: । अ॒वी॒व॒र॒न् ॥८५.१॥
स्वर रहित मन्त्र
वरणो वारयाता अयं देवो वनस्पतिः। यक्ष्मो यो अस्मिन्नाविष्टस्तमु देवा अवीवरन् ॥
स्वर रहित पद पाठवरण: । वारयातै । अयम् । देव:। वनस्पति: । यक्ष्म: । य: । अस्मिन् । आऽविष्ट: । तम् । ऊं इति । देवा: । अवीवरन् ॥८५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 85; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(वरणः) सुयुरुवृञ युच्। उ० २।७४। इति वृञ्−वरणे=स्वीकरणे−युच्। स्वीकरणीयः। वैद्यो वरुणवृक्षो वा। वरुणस्य गुणाः। कटुत्वम् उष्णत्वम्, रक्तदोषशीतवातहरत्वम्, स्निग्धत्वम्, दीपनत्वम्−इति शब्दकल्पद्रुमात् (वारयातै) अ० ४।७।१। वारयातेर्लेटि आडागमः। वैतोऽन्यत्र। पा० ३।४।९६। इति ऐकारः। वारयतु। निवर्तयतु (अयम्) प्रसिद्धः। (देवः) दिव्यः (वनस्पतिः) अ० १।३५।३। वन सेवने−अच्। वन+पतिः, सुट् च। सेवनीयगुणानां रक्षकः (यक्ष्मः) अ० २।१०।५। राजरोगः क्षयः (यः) (अस्मिन्) पुरुषे (आविष्टः) प्रविष्टः (तम्) यक्ष्मम् (उ) एव (देवाः) व्यवहारकुशला विद्वांसः (अवीवरन्) वारयतेर्लुङ् चङि रूपम्। निवारितवन्तः ॥
इस भाष्य को एडिट करें