Loading...
अथर्ववेद > काण्ड 7 > सूक्त 106

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 106/ मन्त्र 1
    सूक्त - अथर्वा देवता - जातवेदाः, वरुणः छन्दः - बृहतीगर्भा त्रिष्टुप् सूक्तम् - अमृतत्व सूक्त

    यदस्मृ॑ति चकृ॒म किं चि॑दग्न उपारि॒म चर॑णे जातवेदः। ततः॑ पाहि॒ त्वं नः॑ प्रचेतः शु॒भे सखि॑भ्यो अमृत॒त्वम॑स्तु नः ॥

    स्वर सहित पद पाठ

    यत् । अस्मृ॑ति । च॒कृ॒म । किम् । चि॒त् । अ॒ग्ने॒ । उ॒प॒ऽआ॒रि॒म । चर॑णे । जा॒त॒ऽवे॒द॒: । तत॑: । पा॒हि॒ । त्वम् । न॒: । प्र॒ऽचे॒त॒: । शु॒भे । सखि॑ऽभ्य: । अ॒मृ॒त॒ऽत्वम् । अ॒स्तु॒ । न॒: ॥१११.१॥


    स्वर रहित मन्त्र

    यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः। ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥

    स्वर रहित पद पाठ

    यत् । अस्मृति । चकृम । किम् । चित् । अग्ने । उपऽआरिम । चरणे । जातऽवेद: । तत: । पाहि । त्वम् । न: । प्रऽचेत: । शुभे । सखिऽभ्य: । अमृतऽत्वम् । अस्तु । न: ॥१११.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 106; मन्त्र » 1

    टिप्पणीः - १−(यत्) दुष्कर्म (अस्मृति) यथा तथा। स्मरणरहितं पूर्वोत्तरकर्मफलानुसन्धानरहितम् (चकृम) वयं कृतवन्तः (किंचित्) किमपि (अग्ने) हे सर्वव्यापक परमेश्वर (उप-आरिम) ऋ हिंसायाम्-लिट्। वयमपराद्धवन्तः (चरणे) आचरणे (जातवेदः) हे जातानां वेदितः (ततः) तस्मात् (पाहि) रक्ष (त्वम्) (नः) अस्मान् (प्रचेतः) हे प्रकृष्टज्ञान (शुभे) कल्याणाय (सखिभ्यः) तव प्रियभूतेभ्यः (अमृतत्वम्) अमरत्वम्। दुःखराहित्यम् (अस्तु) (नः) अस्मभ्यम् ॥

    इस भाष्य को एडिट करें
    Top