Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 12/ मन्त्र 3
ए॒षाम॒हं स॒मासी॑नानां॒ वर्चो॑ वि॒ज्ञान॒मा द॑दे। अ॒स्याः सर्व॑स्याः सं॒सदो॒ मामि॑न्द्र भ॒गिनं॑ कृणु ॥
स्वर सहित पद पाठए॒षाम् । अ॒हम् । स॒म्ऽआसी॑नानाम् । वर्च॑: । वि॒ऽज्ञान॑म् । आ । द॒दे॒ । अ॒स्या: । सर्व॑स्या: । स॒म्ऽसद॑: । माम् । इ॒न्द्र॒ । भ॒गिन॑म् । कृ॒णु॒ ॥१३.३॥
स्वर रहित मन्त्र
एषामहं समासीनानां वर्चो विज्ञानमा ददे। अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥
स्वर रहित पद पाठएषाम् । अहम् । सम्ऽआसीनानाम् । वर्च: । विऽज्ञानम् । आ । ददे । अस्या: । सर्वस्या: । सम्ऽसद: । माम् । इन्द्र । भगिनम् । कृणु ॥१३.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 12; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(एषाम्) पुरोवर्तिनाम् (अहम्) सभापतिः (समासीनानाम्) आस उपवेशने-शानच्। ईदासः। पा० ७।२।८३। आकारस्य ईकारः। यथावदुपविष्टानाम् (वर्चः) तेजः। पराक्रमम् (आ ददे) अङ्गीकरोमि (अस्याः) पुरः स्थितायाः (सर्वस्याः) (संसदः) सभायाः (माम्) (इन्द्र) हे परमेश्वर (भगिनम्) ऐश्वर्यवन्तम् (कृणु) कुरु ॥
इस भाष्य को एडिट करें