Loading...
अथर्ववेद > काण्ड 7 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 14/ मन्त्र 1
    सूक्त - अथर्वा देवता - सविता छन्दः - अनुष्टुप् सूक्तम् - सविता सूक्त

    अ॒भि त्यं दे॒वं स॑वि॒तार॑मो॒ण्योः क॒विक्र॑तुम्। अर्चा॑मि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒यं म॒तिम् ॥

    स्वर सहित पद पाठ

    अ॒भि । त्यम् । दे॒वम् । स॒वि॒तार॑म् । ओ॒ण्यो᳡: । क॒विऽक्र॑तुम् । अर्चा॑मि । स॒त्यऽस॑वम् । र॒त्न॒ऽधाम् । अ॒भि । प्रि॒यम् । म॒तिम् ॥१५.१॥


    स्वर रहित मन्त्र

    अभि त्यं देवं सवितारमोण्योः कविक्रतुम्। अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ॥

    स्वर रहित पद पाठ

    अभि । त्यम् । देवम् । सवितारम् । ओण्यो: । कविऽक्रतुम् । अर्चामि । सत्यऽसवम् । रत्नऽधाम् । अभि । प्रियम् । मतिम् ॥१५.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 14; मन्त्र » 1

    टिप्पणीः - १−(अभि अभि) सर्वतः सर्वतः (त्यम्) प्रसिद्धम् (देवम्) सुखदातारम् (सवितारम्) उत्पादकम् (ओण्योः) सर्वधातुभ्य इन्। उ० ४।११८। ओणृ अपनयने-इन्। कृदिकारादक्तिनः। वा० पा० ४।१।४५। इति ङीप्। द्यावापृथिव्योः-निघ० ३।३०। (कविक्रतुम्) कविः सर्वज्ञा क्रतुः प्रज्ञा कर्म वा यस्य तम्। कविः क्रान्तदर्शनो भवति कवतेर्वा-निरु० १२।१३। (अर्चामि) पूजयामि (सत्यसवम्) सत्यैश्वर्ययुक्तम् (रत्नधाम्) रत्नानि रमणीयानि विज्ञानानि हीरकादीनि भवनानि वा दधातीति तम् (प्रियम्) प्रीतिकरम्। (मतिम्) मनु अवबोधने-क्तिच्। मन्तारम्। मतयो मेधाविनः-निघ० ३।१५ ॥

    इस भाष्य को एडिट करें
    Top