Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 21/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - आत्मा
छन्दः - पराशक्वरी विराड्गर्भा जगती
सूक्तम् - एको विभुः सूक्त
स॒मेत॒ विश्वे॒ वच॑सा॒ पतिं॑ दि॒व एको॑ वि॒भूरति॑थि॒र्जना॑नाम्। स पू॒र्व्यो नूत॑नमा॒विवा॑स॒त्तं व॑र्त॒निरनु॑ वावृत॒ एक॒मित्पु॒रु ॥
स्वर सहित पद पाठस॒म्ऽएत॑ । विश्वे॑ । वच॑सा । पति॑म् । दि॒व: । एक॑: । वि॒ऽभू: । अति॑थि: । जना॑नाम् । स: । पू॒र्व्य: । नूत॑नम् । आ॒ऽविवा॑सत् । तम् । व॒र्त॒नि॒: । अनु॑ । व॒वृ॒ते॒ । एक॑म् । इत् । पु॒रु ॥२२.१॥
स्वर रहित मन्त्र
समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम्। स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु ॥
स्वर रहित पद पाठसम्ऽएत । विश्वे । वचसा । पतिम् । दिव: । एक: । विऽभू: । अतिथि: । जनानाम् । स: । पूर्व्य: । नूतनम् । आऽविवासत् । तम् । वर्तनि: । अनु । ववृते । एकम् । इत् । पुरु ॥२२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 21; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(समेत) आगत्य संगच्छध्वम् (विश्वे) सर्वे जनाः (वचसा) सत्यवचनेन (पतिम्) स्वामिनम् (दिवः) सूर्यलोकस्य (एकः) अद्वितीयः (विभूः) सर्वव्यापकः प्रभुः (अतिथिः) ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्य०। उ० ४।२। इति अत सातत्यगमने-इथिन्। अतिथिरभ्यतितो गृहान् भवति। अभ्येति तिथिषु परकुलानीति वा, परगृहाणीति वा। अयमपीतरोऽतिथिरेतस्मादेव-निरु० ४।५। अतनशीलः। नित्यं प्रापणीयः। विद्वान्। अभ्यागतः (जनानाम्) मनुष्याणाम् (सः) विभूः (पूर्व्यः) अ० ४।१।६। पूर्वाय समस्ताय हितः (नूतनम्) अभिनवं जगत्, नित्यं नवीनाविष्कारपदत्त्वात् (आविवासत्) आङ्+वि+वस निवासे-णिच्-लट्। छन्दस्युभयथा। पा० ३।४।११७। शप आर्धधातुकत्वात् णिलोपः, इकारलोपश्च। समन्ताद् विविधं निवासयति (तम्) (वर्तनि) वृतेश्च। उ० २।१०६। वृतु वर्तने-अनि। मार्गः (अनु) प्रति (ववृते) वृतु-लिट्। वर्तते स्म (एकम्) परमात्मानम् (इत्) एव (पुरु) पुरुधा। अनेकधा ॥
इस भाष्य को एडिट करें