Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 22/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - ब्रध्नः, उषाः
छन्दः - त्रिपदानुष्टुप्
सूक्तम् - ज्योति सूक्त
ब्र॒ध्नः स॒मीची॑रु॒षसः॒ समै॑रयन्। अ॑रे॒पसः॒ सचे॑तसः॒ स्वस॑रे मन्यु॒मत्त॑माश्चि॒ते गोः ॥
स्वर सहित पद पाठब॒ध्न:। स॒मीची॑: । उ॒षस॑: । सम् । ऐ॒र॒य॒न् । अ॒रे॒पस॑: । सऽचे॑तस: । स्वस॑रे । म॒न्यु॒मत्ऽत॑मा: । चि॒ते । गो: ॥२३.२॥
स्वर रहित मन्त्र
ब्रध्नः समीचीरुषसः समैरयन्। अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥
स्वर रहित पद पाठबध्न:। समीची: । उषस: । सम् । ऐरयन् । अरेपस: । सऽचेतस: । स्वसरे । मन्युमत्ऽतमा: । चिते । गो: ॥२३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 22; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ब्रध्नः) बन्धेर्ब्रधिबुधी च। उ० ३।५। इति बन्ध बन्धने-नक्, ब्रध इत्यादेशः। ब्रध्नः=अश्वः-निघ० १।१४। महान्-३।३। बन्धको नियामकः। सूर्यः। सूर्यादीनामकर्षकः परमात्मा (समीचीः) संगताः (उषसः) प्रभातवेलाः (सम्) सम्यक् (ऐरयन्) बहुवचनं छान्दसम्। ऐरयत्। प्रेरितवान् (अरेपसः) निर्मलाः (सचेतसः) समान चेतनकारिणीः (स्वसरे) दिने-निघ० १।९। (मन्युमत्तमाः) यजिमनिशुन्धि०। उ० ३।२०। इति मन दीप्तौ-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा। मन्यन्त्यस्मादिषवः-निरु० १०।२९। अतिशयेन दीप्तयुक्ताः (चिते) चिती संज्ञाने-क्विप्। ज्ञानाय (गोः) भूमेः ॥
इस भाष्य को एडिट करें