Loading...
अथर्ववेद > काण्ड 7 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 25/ मन्त्र 2
    सूक्त - मेधातिथिः देवता - विष्णुः छन्दः - त्रिष्टुप् सूक्तम् - विष्णु सूक्त

    यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ प्र चान॑ति॒ वि च॒ चष्टे॒ शची॑भिः। पु॒रा दे॒वस्य॒ धर्म॑णा॒ सहो॑भि॒र्विष्णु॑मग॒न्वरु॑णं पू॒र्वहू॑तिः ॥

    स्वर सहित पद पाठ

    यस्य॑ । इ॒दम् । प्र॒ऽदिशि॑ । यत् । वि॒ऽरोच॑ते । प्र । च॒ । अन॑ति । वि । च॒ । चष्टे॑ । शची॑भि: । पु॒रा । दे॒वस्य॑ । धर्म॑णा । सह॑:ऽभ‍ि: । विष्णु॑म् । अ॒ग॒न् । वरु॑णम् । पू॒र्वऽहू॑ति: ॥२६.२॥


    स्वर रहित मन्त्र

    यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः। पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन्वरुणं पूर्वहूतिः ॥

    स्वर रहित पद पाठ

    यस्य । इदम् । प्रऽदिशि । यत् । विऽरोचते । प्र । च । अनति । वि । च । चष्टे । शचीभि: । पुरा । देवस्य । धर्मणा । सह:ऽभ‍ि: । विष्णुम् । अगन् । वरुणम् । पूर्वऽहूति: ॥२६.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 25; मन्त्र » 2

    टिप्पणीः - २−(यस्य) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। अत्र द्विवचनस्यैकवचनम्। ययोः (इदम्) राज्यम् (प्रदिशि) अनुशासने (यत्) विश्वम् (विरोचते) विविधं दीप्यते (प्र) प्रकर्षेण (च) (अनति) अनिति। श्वसिति (च) (वि) विविधम् (च) (वि) विविधम् (चष्टे) पश्यति (शचीभिः) कर्मभिः-निघ० १।२। (पुरा) अस्माकं निकटे (देवस्य) व्यवहारकुशलयोः (धर्मणा) धारणसामर्थ्येन (सहोभिः) पराक्रमैः। अन्यत्पूर्ववत्-म० १ ॥

    इस भाष्य को एडिट करें
    Top