Loading...
अथर्ववेद > काण्ड 7 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 3/ मन्त्र 1
    सूक्त - अथर्वा देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    अ॒या वि॒ष्ठा ज॒नय॒न्कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः। स प्र॒त्युदै॑द्ध॒रुणं॒ मध्वो॒ अग्रं॒ स्वया॑ त॒न्वा त॒न्वमैरयत ॥

    स्वर सहित पद पाठ

    अ॒या । वि॒ऽस्था । ज॒नय॑न् । कर्व॑राणि । स: । हि । घृणि॑: । उ॒रु: । वरा॑य । गा॒तु: । स: । प्र॒ति॒ऽउदै॑त् । ध॒रुण॑म् । मध्व॑: । अग्र॑म् । स्वया॑ । त॒न्वा᳡ । त॒न्व᳡म् । ऐ॒र॒य॒त॒ ॥३.१॥


    स्वर रहित मन्त्र

    अया विष्ठा जनयन्कर्वराणि स हि घृणिरुरुर्वराय गातुः। स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत ॥

    स्वर रहित पद पाठ

    अया । विऽस्था । जनयन् । कर्वराणि । स: । हि । घृणि: । उरु: । वराय । गातु: । स: । प्रतिऽउदैत् । धरुणम् । मध्व: । अग्रम् । स्वया । तन्वा । तन्वम् । ऐरयत ॥३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 3; मन्त्र » 1

    टिप्पणीः - १−(अया) अयैनेत्युपदेशस्य-निरु० ३।२१। अनया (विष्ठा) विभक्तेर्लुक्। विष्ठया। विविधं स्थित्या रीत्या (जनयन्) उत्पादयन् (कर्वराणि) कॄगॄशॄ०। उ० २।१२१। इति बाहुलकात् करोतेः ष्वरच्। कर्माणि-निघ० १।२। (सः) प्रसिद्धः (हि) अवधारणे (घृणिः) घृणिपृश्निपार्ष्णि०। ४।५२। घृ दीप्तौ-नि। दीप्यमानः (उरुः) विस्तीर्णः (वराय) वरणीयाय फलाय (गातुः) कमिमनिजनिगा०। उ० १।७३। इति गाङ् गतौ यद्वा गै गाने-नु। पदनाम-निघ० ४।१। गातुं गमनम्-निरु० ४।२१। प्राप्तव्यो गानयोग्यो वा परमेश्वरः (सः) षो अन्तकर्मणि-ड। दुःखनाशकः (प्रत्युदैत्) इण् गतौ-लुङि छान्दसं रूपम्, अन्तर्गतण्यर्थः। प्रत्यक्षेणोद्गमितवान् (धरुणम्) धारणीयम् (मध्वः) मधुनः। ज्ञानस्य (अग्रम्) सारम् (स्वया) स्वकीयया (तन्वा) विस्तृतशक्त्या (तन्वम्) विस्तृतां सृष्टिम् (ऐरयत) प्रेरितवान् ॥

    इस भाष्य को एडिट करें
    Top