Loading...
अथर्ववेद > काण्ड 7 > सूक्त 42

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 42/ मन्त्र 1
    सूक्त - प्रस्कण्वः देवता - सोमारुद्रौ छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    सोमा॑रुद्रा॒ वि वृ॑हतं विषूची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑। बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ॥

    स्वर सहित पद पाठ

    सोमा॑रुद्रा । वि । वृ॒ह॒त॒म् । विषू॑चीम् । अमी॑वा । या । न॒: । गय॑म् । आ॒ऽवि॒वेश॑ । बाधे॑थाम् । दू॒रम् । नि:ऽऋ॑तिम् । प॒रा॒चै: । कृ॒तम् । चि॒त् । एन॑: । प्र । मु॒मु॒क्त॒म् । अ॒स्मत् ॥४३.१॥


    स्वर रहित मन्त्र

    सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश। बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत् ॥

    स्वर रहित पद पाठ

    सोमारुद्रा । वि । वृहतम् । विषूचीम् । अमीवा । या । न: । गयम् । आऽविवेश । बाधेथाम् । दूरम् । नि:ऽऋतिम् । पराचै: । कृतम् । चित् । एन: । प्र । मुमुक्तम् । अस्मत् ॥४३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 42; मन्त्र » 1

    टिप्पणीः - १−(सोमारुद्रा) सोमः सूर्यः प्रसवनात्-निरु० १४।१२। रुद्रो रौतीति सतः-निरु० १०।५। मध्यस्थानो मेघः। सूर्यमेघवत् सुखप्रदौ राजवैद्यौ (वि वृहतम्) वृहू उद्यमने। छेदयतम् (विषूचीम्) अ० १।२९।१। विषु+अञ्चु गतौ-क्विन्। विषूचिकादिरोगम् (अमीवा) इण्शीभ्यां वन्। उ० १।१५२। इति बाहुलकात् अम रोगे पीडने च-वन्, ईडागमः, टाप्। रोगः (या) (नः) अस्माकम् (गयम्) गृहमपत्यं वा (आविवेश) प्रविष्टवती (बाधेथाम्) निवारयतम् (दूरम्) (निर्ऋतिम्) दुःखप्रदां कुनीतिम् (पराचैः) अ० २।१०।५। पराङ्मुखीं कृत्वा (कृतम्) तया सम्पादितम् (एनः) दोषम् (प्र) प्रकर्षेण (मुमुक्तम्) मोचयतम् (अस्मत्) अस्मत्तः ॥

    इस भाष्य को एडिट करें
    Top