Loading...
अथर्ववेद > काण्ड 7 > सूक्त 49

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 49/ मन्त्र 2
    सूक्त - अथर्वा देवता - देवपत्नी छन्दः - चतुष्पदा पङ्क्तिः सूक्तम् - देवपत्नी सूक्त

    उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्यग्नाय्य॒श्विनी॒ राट्। आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥

    स्वर सहित पद पाठ

    उ॒त । ग्ना: । व्य॒न्तु॒ । दे॒वऽप॑त्नी: । इ॒न्द्रा॒णी । अ॒ग्नायी॑ । अ॒श्विनी॑ ।राट् । आ । रोद॑सी । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । व्यन्तु॑ । दे॒वी: । य: । ऋ॒तु: । जनी॑नाम् ॥५१.२॥


    स्वर रहित मन्त्र

    उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्। आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥

    स्वर रहित पद पाठ

    उत । ग्ना: । व्यन्तु । देवऽपत्नी: । इन्द्राणी । अग्नायी । अश्विनी ।राट् । आ । रोदसी । वरुणानी । शृणोतु । व्यन्तु । देवी: । य: । ऋतु: । जनीनाम् ॥५१.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 49; मन्त्र » 2

    टिप्पणीः - २−(उत) अपि च (ग्नाः) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति गमेर्न, टिलोपः, टाप्। मेना ग्ना इति स्त्रीणाम्, ग्ना गच्छन्त्येना-निरु० ३।२१। ग्ना गमनादापो देवपत्न्यो वा-निरु० १०।४७। ग्ना वाक्-निघ० १।११। वाणीः (व्यन्तु) वी गतिव्याप्तिप्रजनादिषु। व्याप्नुवन्तु (देवपत्नीः) विदुषां राज्ञां वा पत्न्यः (इन्द्राणी) इन्द्रस्य परमैश्वर्ययुक्तस्य पत्नी (अग्नायी) वृषाकप्यग्नि०। पा० ४।१।३७। ऐकारादेशः, ङीप् च। अग्नेः पावकवद् वर्तमानस्य पत्नी (अश्विनी) आशुगामिनः स्त्री (राट्) राजति=ईष्टे-निघ० २।२१। राजृ-क्विप्। ऐश्वर्यवती (आ) समुच्चये (रोदसी) सर्वधातुभ्योऽसुन्। उ० ४।१।८९। रुधिर् आवरणे-असुन्, धस्य दकारः। उगितश्च। पा० ४।१।६। ङीप्। रोधनशीला रुद्रस्य पत्नी-निरु० १२।४६। ज्ञानवतः पत्नी (वरुणानी) श्रेष्ठजनस्य पत्नी (शृणोतु) (व्यन्तु) कामयन्ताम् (देवीः) विदुष्यः (ऋतुः) उपकारकालः (जनीनाम्) स्त्रीणाम् ॥

    इस भाष्य को एडिट करें
    Top