Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 51/ मन्त्र 1
सूक्त - अङ्गिराः
देवता - इन्द्राबृहस्पती
छन्दः - त्रिष्टुप्
सूक्तम् - परिपाण सूक्त
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः। इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरी॑यः कृणोतु ॥
स्वर सहित पद पाठबृह॒स्पति॑: । न॒: । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मान् । अध॑रात् । अ॒घ॒ऽयो: । इन्द्र॑: । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒त: । न॒: । सखा॑ । सखि॑ऽभ्य: । वरी॑य: । कृ॒णो॒तु॒ ॥५३.१॥
स्वर रहित मन्त्र
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः। इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥
स्वर रहित पद पाठबृहस्पति: । न: । परि । पातु । पश्चात् । उत । उत्ऽतरस्मान् । अधरात् । अघऽयो: । इन्द्र: । पुरस्तात् । उत । मध्यत: । न: । सखा । सखिऽभ्य: । वरीय: । कृणोतु ॥५३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 51; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(बृहस्पतिः) बृहतां शूराणां पालकः सेनापतिः (परि) सर्वतः (पातु) रक्षतु (पश्चात्) (उत) अपि च (उत्तरस्मात्) ऊर्ध्वाल्लोकात् (अधरात्) अधस्तनाल्लोकात् (अघायोः) अ० १।२०।२। पापेच्छुकात्। दुराचारिणः (इन्द्रः) परमैश्वर्यवान् राजा (पुरस्तात्) अग्रे (उत) (मध्यतः) मध्यात् (नः) अस्मभ्यम् (सखा) सुहृत् (सखिभ्यः) मित्राणां हिताय (वरीयः) उरुतरं स्थानम् (कृणोतु) करोतु ॥
इस भाष्य को एडिट करें