Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 72/ मन्त्र 1
उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म्। यदि॑ श्रा॒तं जु॒होत॑न॒ यद्यश्रा॑तं म॒मत्त॑न ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । अव॑ । प॒श्य॒त॒ । इन्द्र॑स्य । भा॒गम् । ऋ॒त्विय॑म् । यदि॑ । श्रा॒तम् । जु॒होत॑न । यदि॑ । अश्रा॑तम् । म॒मत्त॑न ॥७५.१॥
स्वर रहित मन्त्र
उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम्। यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥
स्वर रहित पद पाठउत् । तिष्ठत । अव । पश्यत । इन्द्रस्य । भागम् । ऋत्वियम् । यदि । श्रातम् । जुहोतन । यदि । अश्रातम् । ममत्तन ॥७५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 72; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(उत्तिष्ठत) ऊर्ध्वं तिष्ठत। पौरुषं कुरुत (अवपश्यत) निरीक्षध्वम् (इन्द्रस्य) परमैश्वर्यवतो मनुष्यस्य, (भागम्) भग-अण् समूहे। ऐश्वर्यसमूहम् (ऋत्वियम्) अ० ३।२०।१। सर्वेषु ऋतुषु कालेषु भवम् (यदि) सम्भावनायाम् (श्रातम्) श्रीञ् पाके-क्त। अपस्पृधेथामानृचुः०। पा० ६।१।३६। इति श्राभावः। पक्वम्। निश्चितम् (जुहोतन) हु दानादानादनेषु। लोटि तस्य तनप्, जुहुत। गृह्णीत (यदि) (अश्रातम्) अपक्वम्। अनिश्चितम् (ममत्तन) मद तृप्तयोगे। लोटि शपः श्लु। मदयत। तर्पयत। समाधत्त ॥
इस भाष्य को एडिट करें