Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 80/ मन्त्र 2
सूक्त - अथर्वा
देवता - पौर्णमासी
छन्दः - अनुष्टुप्
सूक्तम् - पूर्णिमा सूक्त
वृ॑ष॒भं वा॒जिनं॑ व॒यं पौ॑र्णमा॒सं य॑जामहे। स नो॑ ददा॒त्वक्षि॑तां र॒यिमनु॑पदस्वतीम् ॥
स्वर सहित पद पाठवृ॒ष॒भम् । वा॒जिन॑म् । व॒यम् । पौ॒र्ण॒ऽमा॒सम् । य॒जा॒म॒हे॒ । स: । न॒: । द॒दा॒तु॒ । अक्षि॑ताम् । र॒यिम् । अनु॑पऽदस्वतीम् ॥८५.२॥
स्वर रहित मन्त्र
वृषभं वाजिनं वयं पौर्णमासं यजामहे। स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥
स्वर रहित पद पाठवृषभम् । वाजिनम् । वयम् । पौर्णऽमासम् । यजामहे । स: । न: । ददातु । अक्षिताम् । रयिम् । अनुपऽदस्वतीम् ॥८५.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 80; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(वृषभम्) अ० ४।५।१। सर्वश्रेष्ठम् (वाजिनम्) महाबलिनम् (वयम्) (पौर्णमासम्)-म० १। सम्पूर्णपरिमेयपदार्थाधारं परमेश्वरम् (यजामहे) पूजयामः (सः) पौर्णमासः (नः) अस्मभ्यम् (ददातु) (अक्षिताम्) अक्षीणाम् (रयिम्) सम्पत्तिम् (अनुपदस्वतीम्) उपभोगेऽपि क्षयरहिताम् ॥
इस भाष्य को एडिट करें