अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अश्विनीकुमारः, बृहस्पतिः
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - नवशाला सूक्त
अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑न्तौ। बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ् य॒ज्ञो अ॒यं स्व॑रि॒दं यज॑मानाय॒ स्वाहा॑ ॥
स्वर सहित पद पाठअश्वि॑ना । ब्रह्म॑णा । आ । या॒त॒म् । अ॒र्वाञ्चौ॑ । व॒ष॒ट्ऽका॒रेण॑ । य॒ज्ञम् । व॒र्धय॑न्तौ । बृह॑स्पते । ब्रह्म॑णा । आ । या॒हि॒ । अ॒वाङ् । य॒ज्ञ: । अ॒यम् । स्व᳡: । इ॒दम् । यज॑मानाय । स्वाहा॑ ॥२६.१२॥
स्वर रहित मन्त्र
अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ। बृहस्पते ब्रह्मणा याह्यर्वाङ् यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥
स्वर रहित पद पाठअश्विना । ब्रह्मणा । आ । यातम् । अर्वाञ्चौ । वषट्ऽकारेण । यज्ञम् । वर्धयन्तौ । बृहस्पते । ब्रह्मणा । आ । याहि । अवाङ् । यज्ञ: । अयम् । स्व: । इदम् । यजमानाय । स्वाहा ॥२६.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 12
विषय - योग साधना।
भावार्थ -
हे (अश्विनौ) प्राण और उदान ! तुम दोनो (अर्वाञ्चौ) साक्षात् होकर या शरीर के सब गुह्य स्थानों में प्रविष्ट होते हुए, (वषट्-कारेण) वषट्कार = मुख्य प्राण के बल से (यज्ञं) यज्ञरूप आत्मा की शक्ति को (वर्धयन्तौ) बढ़ाते हुए (ब्रह्मणा) ब्रह्म, परमात्मा के बल से (यातम्) गमन करो। हे (बृहस्पते) बृहती वाणी या ब्रह्मविद्या के पालक योगिन् ! तू भी (ब्रह्मणा) ब्रह्मज्ञान से (अर्वाङ्) साक्षात् आत्मरूप को (याहि) प्राप्त कर। (अयं यज्ञः स्वः) यही आत्मा का ‘स्व’ स्वरूप साक्षात् स्वः- सुखमय मोक्षधाम है। (इदं) यह साक्षात् ब्रह्म (यजमानाय) देवोपासना करने वाले आत्मा के लिये (स्वाहा) सब से श्रेष्ठ आहुति होने का विषय है।
टिप्पणी -
प्राणो वै वषट्कारः ॥ श० ४। २। १। २९ ॥ एते एव वषट्कारस्य प्रियतमे तनू यदोजश्च सहश्च ॥ कौ० ३। ५ ॥ तस्य वा एतस्य ब्रह्मयज्ञस्य चत्वारो वषट्काराः यद् वातो वाति, यद्विद्योतते, यत्स्तनयति, यदवस्फूर्जयति॥ श० ११। ५। ६। ९॥ त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः। स यदेवोच्चैर्बलं वषट्करोति स वज्रः। अथ यः संततो निर्हाणच्छत् स धामच्छत् अथ येनैव वषट् परार्ध्नोति स रिक्तः ॥ मे० उ० ३। ३॥
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। वास्तोष्पत्यादयो मन्त्रोक्ता देवताः। १, ५ द्विपदार्च्युष्णिहौ। २, ४, ६, ७, ८, १०, ११ द्विपदाप्राजापत्या बृहत्यः। ३ त्रिपदा पिपीलिकामध्या पुरोष्णिक्। १-११ एंकावसानाः। १२ प्रातिशक्वरी चतुष्पदा जगती। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें