Loading...
ऋग्वेद मण्डल - 10 के सूक्त 111 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 111/ मन्त्र 1
    ऋषिः - अष्ट्रादंष्ट्रो वैरूपः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    मनी॑षिण॒: प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒: सन्ति॑ नृ॒णाम् । इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒: स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥

    स्वर सहित पद पाठ

    मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् । इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥


    स्वर रहित मन्त्र

    मनीषिण: प्र भरध्वं मनीषां यथायथा मतय: सन्ति नृणाम् । इन्द्रं सत्यैरेरयामा कृतेभि: स हि वीरो गिर्वणस्युर्विदानः ॥

    स्वर रहित पद पाठ

    मनीषिणः । प्र । भरध्वम् । मनीषाम् । यथाऽयथा । मतयः । सन्ति । नृणाम् । इन्द्रम् । सत्यैः । आ । ईरयाम । कृतेभिः । सः । हि । वीरः । गिर्वणस्युः । विदानः ॥ १०.१११.१

    ऋग्वेद - मण्डल » 10; सूक्त » 111; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 10; मन्त्र » 1

    भावार्थ -
    हे (मनीषिणः) बुद्धिमान्, उत्तम स्तुति करने वाले जनो ! (यथा-यथा) जैसी जैसी (नृणां मतयः सन्ति) श्रेष्ठ मनुष्यों की बुद्धियां वा ज्ञान होते हैं वैसी-वैसी ही (मनीषाम् प्र भरध्वम्) स्तुति करो। हम (सत्यैः कृतेभिः) अपने सत्य आचरणों से (इन्द्रम् आ ईरयाम) उस प्रभु को अपनी ओर आकर्षित करें। (सः हि वीरः) वह विविध ज्ञानों का देने वाला, विविध लोकों को सञ्चालन करने वाला, बलशाली, प्रभु (विदानः) सब कुछ जानने हारा है। वह (गिर्वणस्युः) वाणी द्वारा उपासना करने वाले भक्त को चाहता और उसका स्वामी है।

    ऋषि | देवता | छन्द | स्वर - ऋषिरष्ट्रादष्ट्रो वैरूपः॥ इन्द्रो देवता॥ छन्दः- १, २, ४ त्रिष्टुप्। ३, ६, १० विराट त्रिष्टुप्। ५, ७, ९ निचृत् त्रिष्टुप्। ८ पादानिचृत् त्रिष्टुप्॥ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top