Loading...
ऋग्वेद मण्डल - 10 के सूक्त 117 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 117/ मन्त्र 1
    ऋषिः - भिक्षुः देवता - धनान्नदानप्रशंसा छन्दः - निचृज्जगती स्वरः - निषादः

    न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यव॑: । उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि॑न्दते ॥

    स्वर सहित पद पाठ

    न । वै । ऊँ॒ इति॑ । दे॒वाः । क्षुध॑म् । इत् । व॒धम् । द॒दुः॒ । उ॒त । आशि॑तम् । उप॑ । ग॒च्छ॒न्ति॒ । मृ॒त्यवः॑ । उ॒तो इति॑ । र॒यिः । पृ॒ण॒तः । न । उप॑ । द॒स्य॒ति॒ । उ॒त । अपृ॑णन् । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥


    स्वर रहित मन्त्र

    न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यव: । उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥

    स्वर रहित पद पाठ

    न । वै । ऊँ इति । देवाः । क्षुधम् । इत् । वधम् । ददुः । उत । आशितम् । उप । गच्छन्ति । मृत्यवः । उतो इति । रयिः । पृणतः । न । उप । दस्यति । उत । अपृणन् । मर्डितारम् । न । विन्दते ॥ १०.११७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 117; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 22; मन्त्र » 1

    भावार्थ -
    (देवाः) विद्वान् लोग (क्षुधम् न ददुः) भूख का दण्ड नहीं देवें, प्रत्युत (वधं ददुः) पीड़ादायक दण्ड ही देवें। अथवा ते (क्षुधम् इत् वधं न ददुः) भूख के कारण दूसरे को नाश करने का दण्ड न देवें। (उत) क्योंकि (आशितम्) खानेवाले को भी (मृत्यवः) मरणकारी अवसर (उप गच्छन्ति) प्राप्त होते हैं। (उतो) और (पृणतः रयिः) अन्यों को पालने वाले का धन (न उप दस्यति) कभी नाश को प्राप्त नहीं होता। (उत) और (अपृणन्) दूसरों को न पालने वाला (मर्डितारं न विन्दते) अपने प्रति सुख देने और दया करने वाले को नहीं पाता।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्भिक्षुः॥ इन्द्रो देवता—घनान्नदान प्रशंसा॥ छन्दः—१ निचृज्जगती—२ पादनिचृज्जगती। ३, ७, ९ निचृत् त्रिष्टुप्। ४, ६ त्रिष्टुप्। ५ विराट् त्रिष्टुप्। ८ भुरिक् त्रिष्टुप्। नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top