Loading...
ऋग्वेद मण्डल - 10 के सूक्त 142 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 142/ मन्त्र 1
    ऋषिः - शार्ङ्गाः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् । भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥

    स्वर सहित पद पाठ

    अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भू॒त् । अपि॑ । सह॑सः । सू॒नो॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति॑ । आप्य॑म् । भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति॑ । ते॒ । आ॒रे । हिंसा॑नाम् । अप॑ । दि॒द्युम् । आ । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्य१न्यदस्त्याप्यम् । भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥

    स्वर रहित पद पाठ

    अयम् । अग्ने । जरिता । त्वे इति । अभूत् । अपि । सहसः । सूनो इति । नहि । अन्यत् । अस्ति । आप्यम् । भद्रम् । हि । शर्म । त्रिऽवरूथम् । अस्ति । ते । आरे । हिंसानाम् । अप । दिद्युम् । आ । कृधि ॥ १०.१४२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 142; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 30; मन्त्र » 1

    भावार्थ -
    हे (अग्ने) ज्ञानवन् ! स्वप्रकाश ! प्रत्येक देह में व्यापक, अग्निस्वरूप प्रभो ! (अयम् जरिता) यह स्तुतिकर्ता, विद्वान् (त्वे अपि अभूत्) तेरे में ही ‘अप्यय’ अर्थात् मग्न होकर एकीभाव प्राप्त करे। हे (सहसः सूनो) बल के उत्पादक ! सर्वशक्तिमन् ! (नहि अन्यत् आप्यम् अस्ति) और कुछ भी नहीं पाना है। या और इससे अधिक दूसरी बन्धुता नहीं है (ते) तेरा दिया (भद्रं शर्म) कल्याण का जनकसुख ही (त्रि- वरूथं) तीनों दुःखों से बचाने वाला, तीनों तापों का वारक, तिमंजिले मकान के समान (अस्ति) है। तू (हिंसानाम्) हिंसकों के (दिद्युम्) चमकते शस्त्र या क्रोध को (आरे अपाकृधि) हम से दूर कर अथवा (हिंसानाम्) मारे जाने वाले हम प्राणियों से अपने चमचमाते क्रोध को दूर कर।

    ऋषि | देवता | छन्द | स्वर - ऋषिः शार्ङ्गाः। १, २ जरिता। ३, ४ द्रोणः। ५, ६ सारिसृक्वः। ७,८ स्तम्बमित्रः अग्निर्देवता॥ छन्द:- १, २ निचृज्जगती। ३, ४, ६ त्रिष्टुप्। ५ आर्ची स्वराट् त्रिष्टुप्। ७ निचृदनुष्टुप्। ८ अनुष्टुप्॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top