Loading...
ऋग्वेद मण्डल - 10 के सूक्त 160 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 160/ मन्त्र 5
    ऋषिः - पूरणो वैश्वामित्रः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ । आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥

    स्वर सहित पद पाठ

    अ॒श्व॒यन्तः॑ । ग॒व्यन्तः॑ । वा॒जय॑न्तः । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊँ॒ इति॑ । आ॒ऽभूष॑न्तः । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥


    स्वर रहित मन्त्र

    अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥

    स्वर रहित पद पाठ

    अश्वयन्तः । गव्यन्तः । वाजयन्तः । हवामहे । त्वा । उपऽगन्तवै । ऊँ इति । आऽभूषन्तः । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम ॥ १०.१६०.५

    ऋग्वेद - मण्डल » 10; सूक्त » 160; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 5

    भावार्थ -
    (वयम्) हम लोग (अश्वायन्तः गव्यन्तः वाजयन्तः) अश्वों, गौओं, और देह में, कर्म और ज्ञानेन्द्रियों को चाहने वाले, और ऐश्वर्य चाहते हुए, (त्वा उपगन्तवै हवामहे) तुझे प्राप्त होने के लिये तुझे पुकारते हैं (ते नवायां सुमतौ) तेरी अति सुन्दर शुभ मति, ज्ञान में (आभूषन्तः) सब प्रकार से रहते हुए, हे (इन्द्र) ऐश्वर्यवन् प्रभो ! (त्वा शुनं हुवेम) तुझ को सुखपूर्वक पुकारें। इत्यष्टादशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिः पूरणो वैश्वामित्रः॥ इन्द्रो देवता॥ छन्दः- १, ३ त्रिष्टुप्। २ पादनिचृत् त्रिष्टुप्। ४, ५ विराट् त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top