ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 1
ऋषिः - कपोतो नैर्ऋतः
देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम्
छन्दः - स्वराट्त्रिष्टुप्
स्वरः - धैवतः
देवा॑: क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निॠ॑त्या इ॒दमा॑ज॒गाम॑ । तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥
स्वर सहित पद पाठदेवाः॑ । क॒पोतः॑ । इ॒षि॒तः । यत् । इ॒च्छन् । दू॒तः । निःऽऋ॑त्याः । इ॒दम् । आ॒ऽज॒गाम॑ । तस्मै॑ । अ॒र्चा॒म॒ । कृ॒णवा॑म । निःऽकृ॑तिम् । शम् । नः॒ । अ॒स्तु॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥
स्वर रहित मन्त्र
देवा: कपोत इषितो यदिच्छन्दूतो निॠत्या इदमाजगाम । तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
स्वर रहित पद पाठदेवाः । कपोतः । इषितः । यत् । इच्छन् । दूतः । निःऽऋत्याः । इदम् । आऽजगाम । तस्मै । अर्चाम । कृणवाम । निःऽकृतिम् । शम् । नः । अस्तु । द्विऽपदे । शम् । चतुःऽपदे ॥ १०.१६५.१
ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 1
विषय - कपोतोपहति पर वैश्वदेव प्रायश्चित्त। वक्ता का ठीक तार्पार्थ दर्शाने वाला चतुर दूत वा उपदेष्टा कपोत। उसके आदर सरकार का उपदेश।
भावार्थ -
हे (देवाः) विद्वान् पुरुषो ! (निर्ऋत्याः) कष्टदायी दुःख, विपत्ति या सेना वा भूमि, देशसम्बन्धी (दूतः) दूत, संदेशहर (कपोतः) ठीक २ अर्थ या तात्पर्य का दर्शाने वाला विद्वान् (इषितः) प्रेरित होकर (यत् इच्छन् इदम् आ जगाम) जो कुछ भी चाहता हुआ इस प्रकार आजावे तो भी हम (अस्मै अर्चाम) उसका आदर करें, उसका (निष्कृतिं कृणवाम) श्रम दूर करें (नः द्विपदे चतुष्पदे शम् शम् अस्तु) हमारे दोपायों और चौपायों के लिये भी शान्ति ही शान्ति हो।
टिप्पणी -
उपदेष्टा, राजदूतादि बन कर आये विद्वानों का हमें सदा आदर करना चाहिये।
ऋषि | देवता | छन्द | स्वर - ऋषिः कपोतो नैर्ऋतः॥ देवता—कपोतोपहतौ प्रायश्चित्तं वैश्वदेवम्॥ छन्दः—१ स्वराट् त्रिष्टुप्। २, ३ निचृत् त्रिष्टुप्। ४ भुरिक् त्रिष्टुप्। ५ त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें