ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 5
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥
स्वर सहित पद पाठअजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् । जा॒ग्र॒त्ऽस्व॒प्नः । स॒म्ऽक॒ल्पः । पा॒पः । यम् । द्वि॒ष्मः । तम् । सः । ऋ॒च्छ॒तु॒ । यः । नः॒ । द्वे॒ष्टि॒ । तम् । ऋ॒च्छ॒तु॒ ॥
स्वर रहित मन्त्र
अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥
स्वर रहित पद पाठअजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् । जाग्रत्ऽस्वप्नः । सम्ऽकल्पः । पापः । यम् । द्विष्मः । तम् । सः । ऋच्छतु । यः । नः । द्वेष्टि । तम् । ऋच्छतु ॥ १०.१६४.५
ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 5
विषय - विजय और सफलता की भावना।
भावार्थ -
(अद्य अजैष्म) आज विजय कर लिया, (वयं अद्य असनाम) आज हमने प्राप्त करने योग्य पा लिया। (वयम् अनागसः अभूम) हम आज निष्पाप हो गये हैं। (जाग्रत्-स्वप्नः) जागते और सोते समय का (पापः संकल्पः) पाप रूप बुरा संकल्प (यम् द्विष्मः तं स ऋच्छतु) जिसको हम द्वेष करते हैं उसको वह प्राप्त हो। और (यः नः द्वेष्टि) जो हम से द्वेष करता है (तं स ऋच्छतु) उसको वह प्राप्त हो। इति द्वाविंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः प्रचेताः॥ देवता—दुःस्वप्नघ्नम्॥ छन्दः–१ निचृदनुष्टुप्। २ अनुष्टुप्। ४ विराडनुष्टुप्। ३ आर्ची भुरिक् त्रिष्टुप्। ५ पंक्तिः॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें