Loading...
ऋग्वेद मण्डल - 10 के सूक्त 167 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 167/ मन्त्र 3
    ऋषिः - विश्वामित्रजमदग्नी देवता - लिङ्गोक्ताः छन्दः - जगती स्वरः - निषादः

    सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि । तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥

    स्वर सहित पद पाठ

    सोम॑स्य । राज्ञः॑ । वरु॑णस्य । धर्म॑णि । बृह॒स्पतेः॑ । अनु॑ऽमत्याः । ऊँ॒ इति॑ । शर्म॑णि । तव॑ । अ॒हम् । अ॒द्य । म॒घ॒ऽव॒न् । उप॑ऽस्तुतौ । धातः॑ । विऽधा॑त॒रिति॒ विऽधा॑तः । क॒लशा॑न् । अ॒भ॒क्ष॒य॒म् ॥


    स्वर रहित मन्त्र

    सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि । तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयम् ॥

    स्वर रहित पद पाठ

    सोमस्य । राज्ञः । वरुणस्य । धर्मणि । बृहस्पतेः । अनुऽमत्याः । ऊँ इति । शर्मणि । तव । अहम् । अद्य । मघऽवन् । उपऽस्तुतौ । धातः । विऽधातरिति विऽधातः । कलशान् । अभक्षयम् ॥ १०.१६७.३

    ऋग्वेद - मण्डल » 10; सूक्त » 167; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 25; मन्त्र » 3

    भावार्थ -
    हे (मघवन्) उत्तम ऐश्वर्य के स्वामिन् ! मैं (राज्ञः सोमस्य) दीप्तिमान् सर्वोत्पादक, सबके शासक, (वरुणस्य) सर्वश्रेष्ठ, (बृहस्पतेः) महान् विश्व के पालक प्रभु के (धर्मणि) धारण, शासन और (अनु-मत्याः) सबको अनुमति देने वाली आज्ञापक शक्ति की (शर्मणि) शरण या वश में रहता हुआ और हे (घातः विधातः) समस्त जगत् के धारक, उत्पादक और संहारक प्रभो ! (तव उपस्तुतौ) तेरे उपदेश के अधीन रह कर ही मैं जीव (कलशान्) इन नाना देहों का (अभक्षयम्) सेवन या भोग करता हूं।

    ऋषि | देवता | छन्द | स्वर - ऋषिः विश्वामित्रजमदग्नी॥ देवता—१, २, ४ इन्द्रः। ३ लिङ्गोक्ताः॥ छन्दः—१ आर्चीस्वराड् जगती। २, ४ विराड् जगती। ३ जगती॥ चतुर्ऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top