Loading...
ऋग्वेद मण्डल - 10 के सूक्त 53 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 5
    ऋषिः - अग्निः सौचीकः देवता - देवाः छन्दः - स्वराडार्चीत्रिष्टुप् स्वरः - धैवतः

    पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः । पृ॒थि॒वी न॒: पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥

    स्वर सहित पद पाठ

    पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः । पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥


    स्वर रहित मन्त्र

    पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । पृथिवी न: पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥

    स्वर रहित पद पाठ

    पञ्च । जनाः । मम । होत्रम् । जुषन्ताम् । गोऽजाताः । उत । ये । यज्ञियासः । पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥ १०.५३.५

    ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 5
    अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 5

    भावार्थ -
    (गो-जाताः) पृथिवी पर उत्पन्न वा गौ, वेदवाणी, उस में उत्पन्न, निष्णात (उत ये) और जो (यज्ञियासः) यज्ञ के योग्य, पूज्य हैं वे (पञ्च जना) पांचों जन (मम होत्रं) मेरे यज्ञ, आह्वान, या वचनों को प्रेमपूर्वक स्वीकार करें। (पृथिवी) विस्तृत पृथिवी, देवी माता (नः) हमें (पार्थिवात् अंहसः) पृथिवी के सम्बन्धी, पापों वा कष्ट से (पातु) बचावे और (अन्तरिक्षम्) अन्तरिक्ष, तद्वत् ऊपर गुरु, प्रभु, पिता आदि (अस्मान्) हमें (दिव्यात्) दिव्य (अंहसः) आकाश से आने वाले कष्ट से (पातु) बचावे। इति त्रयोदशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिः–१–३, ६, ११ देवाः। ४, ५ अग्नि सौचिकः॥ देवता-१-३, ६–११ अग्निः सौचीकः। ४, ५ देवाः॥ छन्द:– १, ३, ८ त्रिष्टुप् २, ४ त्रिष्टुप्। ५ आर्ची स्वराट् त्रिष्टुप्। ६, ७, ९ निचृज्जगती। १० विराड् जगती। ११ पादनिचृज्जगती॥ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top