Loading...
ऋग्वेद मण्डल - 10 के सूक्त 93 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 93/ मन्त्र 15
    ऋषिः - तान्वः पार्थ्यः देवता - विश्वेदेवा: छन्दः - पाद्निचृद्बृहती स्वरः - मध्यमः

    अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्व॑: स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥

    स्वर सहित पद पाठ

    अधि॑ इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ । स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । माय॒वः ॥


    स्वर रहित मन्त्र

    अधीन्न्वत्र सप्ततिं च सप्त च । सद्यो दिदिष्ट तान्व: सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥

    स्वर रहित पद पाठ

    अधि इत् । नु । अत्र । सप्ततिम् । च । सप्त । च । सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥ १०.९३.१५

    ऋग्वेद - मण्डल » 10; सूक्त » 93; मन्त्र » 15
    अष्टक » 8; अध्याय » 4; वर्ग » 28; मन्त्र » 5

    भावार्थ -
    (तान्वः) तनु, देह के ज्ञान का वेत्ता, (अत्र) इस सम्बन्ध में (सप्त च सप्ततिं च) ७७ नाड़ियों, तन्तु केन्द्रों का (अधि दिदिष्ट) उपदेश करता है, (पार्थ्यः) विस्तृत शक्ति का स्वामी भी (सद्यः) शीघ्र ही ७७ को (अधि दिदिष्ट) वश करे और (मायवः सद्यः दिदिष्ट) ज्ञान की कामना वाला भी इन ७७ के सम्बन्ध में ज्ञान याचना करे। इत्यष्टाविंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषिस्तान्वः पार्थ्यः। विश्वेदेवा देवताः॥ छन्द:- १ विराट् पक्तिः। ४ पादनिचृत् पङ्क्तिः। ५ आर्चीभुरिक् पङ्क्तिः। ६, ७, १०, १४ निचृत् पङ्क्तिः। ८ आस्तारपङ्क्तिः। ९ अक्षरैः पङ्क्तिः। १२ आर्ची पङ्क्तिः। २, १३ आर्चीभुरिगनुष्टुप्। ३ पादनिचृदनुष्टुप्। ११ न्यङ्कुसारिणी बृहती। १५ पादनिचृद् बृहती। पञ्चदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top