ऋग्वेद - मण्डल 6/ सूक्त 69/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्राविष्णू
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना। सं वा॑मञ्जन्त्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥३॥
स्वर सहित पद पाठइन्द्रा॑विष्णू॒ इति॑ । म॒द॒प॒ती॒ इति॑ मदऽपती । म॒दा॒ना॒म् । आ । सोम॑म् । या॒त॒म् । द्रवि॑णो॒ इति॑ । दधा॑ना । सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तुऽभिः॑ । म॒ती॒नाम् । सम् । स्तोमा॑सः । श॒स्यमा॑नासः । उ॒क्थैः ॥
स्वर रहित मन्त्र
इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना। सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥३॥
स्वर रहित पद पाठइन्द्राविष्णू इति। मदपती इति मदऽपती। मदानाम्। आ। सोमम्। यातम्। द्रविणो इति। दधाना। सम्। वाम्। अञ्जन्तु। अक्तुऽभिः। मतीनाम्। सम्। स्तोमासः। शस्यमानासः। उक्थैः ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 69; मन्त्र » 3
अष्टक » 5; अध्याय » 1; वर्ग » 13; मन्त्र » 3
अष्टक » 5; अध्याय » 1; वर्ग » 13; मन्त्र » 3
विषय - सभापति सेनापति के कर्त्तव्य ।
भावार्थ -
हे (इन्द्राविष्णू ) ऐश्वर्यवन् शत्रुहन्तः और व्यापक सामर्थ्यवन् ! सभा, सभापते, सेना, सेनापते ! वा राजन् ! प्रभो ! आप दोनों ( दविणः दधाना ) नाना धनों को धारण करते हुए ( सोमं आ यातम्) ऐश्वर्य वा सोम्य स्वभाव प्रजाजन को पुत्र वा शिष्यवत् प्राप्त होओ, आप दोनों ( मदानां मदपती ) सब प्रकार के सुखों को प्राप्त कर उनको पालन करने वाले होओ। (मतीनां ) मननशील विद्वान् पुरुषों के ( शस्यमानासः ) उपदेश किये गये ( स्तोमासः ) स्तुतियोग्य उपदेश, ( उक्थैः ) उत्तम वचनों, वा प्रशंसनीय ( अक्तुभिः ) चमका देने वाले गुणों से सब दिनों ( वां सं सं अञ्जन्तु ) आप दोनों को अच्छी प्रकार प्रकाशित, सुभूषित करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। इन्द्राविष्णू देवते ।। छन्दः – १, ३, ६, ७ निचृत्त्रिष्टुप् । २, ४, ८ त्रिष्टुप् । ५ ब्राह्म्युणिक् ।। अष्टर्चं सूक्तम् ।।
इस भाष्य को एडिट करें