Loading...
ऋग्वेद मण्डल - 7 के सूक्त 90 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 90/ मन्त्र 6
    ऋषिः - वसिष्ठः देवता - इन्द्रवायू छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः । इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥

    स्वर सहित पद पाठ

    ई॒शा॒नासः॑ । ये । दध॑ते । स्वः॑ । नः॒ । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । हिर॑ण्यैः । इन्द्र॑वायू॒ इति॑ । सू॒रयः॑ । विश्व॑म् । आयुः॑ । अर्व॑त्ऽभिः । वी॒रैः । पृत॑नासु । स॒ह्युः॒ ॥


    स्वर रहित मन्त्र

    ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः । इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥

    स्वर रहित पद पाठ

    ईशानासः । ये । दधते । स्वः । नः । गोभिः । अश्वेभिः । वसुऽभिः । हिरण्यैः । इन्द्रवायू इति । सूरयः । विश्वम् । आयुः । अर्वत्ऽभिः । वीरैः । पृतनासु । सह्युः ॥ ७.९०.६

    ऋग्वेद - मण्डल » 7; सूक्त » 90; मन्त्र » 6
    अष्टक » 5; अध्याय » 6; वर्ग » 12; मन्त्र » 6

    भावार्थ -
    ( ये ) जो ( ईशानासः ) ऐश्वर्यवान् और शासन अधिकार से युक्त होकर ( नः ) हमारे सर्वस्व धन, राष्ट्र और सुखादि को ( गोभिः ) गौओं और भूमियों, ( अश्वेभिः ) घोड़ों ( वसुभिः ) राष्ट्रवासी विद्वानों और ( हिरण्यैः ) सुवर्णादि धातुओं, और हित रमणीय साधनों से ( विश्वम् आयु: ) पूर्ण जीवन ( दधते ) धारण करते हैं, या हमें प्रदान करते हैं हे ( इन्द्रवायू ) ऐश्वर्यवान् बलवान् प्रधान नायक पुरुषो ! वे ( सूरयः ) विद्वान् पुरुष ( अर्वद्भिः वीरैः ) शत्रुओं को नाश करने हारे वीर पुरुषों द्वारा ( पृतनासु ) संग्रामों में ( सह्युः ) विजय करें ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १—४ वायुः। ५—७ इन्द्रवायू देवते । छन्दः—१, २, ७ विराट् त्रिष्टुप् । ३ त्रिष्टुप् । ४, ५, ६ निचृत् त्रिष्टुप् ॥ सप्तर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top