ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 46
ऋषिः - वत्सः काण्वः
देवता - तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः
छन्दः - विराडार्षीगायत्री
स्वरः - षड्जः
श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे । राधां॑सि॒ याद्वा॑नाम् ॥
स्वर सहित पद पाठश॒तम् । अ॒हम् । ति॒रिन्दि॑रे । स॒हस्र॑म् । पर्शौ॑ । आ । द॒दे॒ । राधां॑सि । याद्वा॑नाम् ॥
स्वर रहित मन्त्र
शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे । राधांसि याद्वानाम् ॥
स्वर रहित पद पाठशतम् । अहम् । तिरिन्दिरे । सहस्रम् । पर्शौ । आ । ददे । राधांसि । याद्वानाम् ॥ ८.६.४६
ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 46
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 6
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 6
विषय - पिता प्रभु । प्रभु और राजा से अनेक स्तुति-प्रार्थनाएं ।
भावार्थ -
( अहं ) मैं ( याद्वानां ) मनुष्यों के ( शतं सहस्रं राधांसि ) सौ, और हजार भी ऐश्वर्य ( तिरिन्दिरे ) उस तीर्णतम, सर्वोपरि ऐश्वर्य वान्, ( पर्शौ ) सर्वद्रष्टा सर्वस्प्रष्टा, सर्वव्यापक प्रभु के बीच में ही ( आददे) प्राप्त करता हूं । ( २ ) इसी प्रकार ( याद्वानां शतं सहस्रं राधांसि ) यत्नशील परिश्रमी मनुष्यों के सैकड़ों सहस्रों ऐश्वर्यं ( पर्शौ ) परशुवत् शत्रुच्छेदन करने में समर्थ ( तिरिन्दिरे ) शत्रुहन्ता राजा के अधीन ही मैं प्रजाजन प्राप्त कर सकता हूं ।
टिप्पणी -
युवा स्यात् साधु युवाध्यायकः। आशिष्ठो द्रढिष्ठो बलिष्ठः तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः॥ ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः .......ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य। तैति० उप० ब्रह्मानन्द वल्ली ८ ॥
तिरिन्दरः—तिरः तीर्णतमः इन्दिरः इन्द्रः। 'पर्शुः'—पशुः पश्यतेः। रकारोपजनः। परशुः। अकारलोपः। पर्शुः स्पृशतेः। संस्प्रष्टा पृष्ठदेशम्। निरु ० ४। १। ४॥
ऋषि | देवता | छन्द | स्वर - वत्सः काण्व ऋषिः ॥ १—४५ इन्द्रः। ४६—४८ तिरिन्दिरस्य पारशव्यस्य दानस्तुतिर्देवताः॥ छन्दः—१—१३, १५—१७, १९, २५—२७, २९, ३०, ३२, ३५, ३८, ४२ गायत्री। १४, १८, २३, ३३, ३४, ३६, ३७, ३९—४१, ४३, ४५, ४८ निचृद् गायत्री। २० आर्ची स्वराड् गायत्री। २४, ४७ पादनिचृद् गायत्री। २१, २२, २८, ३१, ४४, ४६ आर्षी विराड् गायत्री ॥
इस भाष्य को एडिट करें