Loading...
ऋग्वेद मण्डल - 9 के सूक्त 81 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 81/ मन्त्र 1
    ऋषिः - वसुर्भारद्वाजः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं॑ सु॒पेश॑सः । द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दम॑न्दिषुः सु॒ताः ॥

    स्वर सहित पद पाठ

    प्र । सोम॑स्य । पव॑मानस्य । ऊ॒र्मयः॑ । इन्द्र॑स्य । य॒न्ति॒ । ज॒ठर॑म् । सु॒ऽपेश॑सः । द॒ध्ना । यत् । ई॒म् । उत्ऽनी॑ताः । य॒शसा॑ । गवा॑म् । दा॒नाय॑ । शूर॑म् । उ॒त्ऽअम॑न्दिषुः । सु॒ताः ॥


    स्वर रहित मन्त्र

    प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः । दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ॥

    स्वर रहित पद पाठ

    प्र । सोमस्य । पवमानस्य । ऊर्मयः । इन्द्रस्य । यन्ति । जठरम् । सुऽपेशसः । दध्ना । यत् । ईम् । उत्ऽनीताः । यशसा । गवाम् । दानाय । शूरम् । उत्ऽअमन्दिषुः । सुताः ॥ ९.८१.१

    ऋग्वेद - मण्डल » 9; सूक्त » 81; मन्त्र » 1
    अष्टक » 7; अध्याय » 3; वर्ग » 6; मन्त्र » 1

    भावार्थ -
    (पवमानस्य) पवित्र करने वाले वा व्याप्त हुए (सोमस्य) उस सर्वशास्ता ऐश्वर्यवान् प्रभु के (ऊर्मयः) उत्तम आदेश एवं तरंग (सु-पेशसः) उत्तम, शुभरूप होकर (इन्द्रस्य जठरं यन्ति) आत्मा के हृदय तक पहुंचते हैं। (यत्) जो (दध्ना उन्नीताः) ध्यान धारणा के बल से सब ओर से ऊपर आये हुए (सुताः) उत्पन्न तरंग (गवां यशसा) वाणियों के बल से (शूरं) शूर वीर पुरुष को (दानाय) आत्मसमर्पण के लिये (उत् अमन्दिषुः) उन्मत्त, अति प्रसन्न कर देते हैं।

    ऋषि | देवता | छन्द | स्वर - वसुर्भारद्वाज ऋषिः। पवमानः सोमो देवता ॥ छन्दः–१—३ निचृज्जगती। ४ जगती। ५ निचृत्त्रिष्टुप्॥

    इस भाष्य को एडिट करें
    Top