Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 294
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

इ꣣म꣡ इ꣡न्द्र꣣ म꣡दा꣢य ते꣣ सो꣡मा꣢श्चिकित्र उ꣣क्थि꣢नः꣣ । म꣡धोः꣢ पपा꣣न꣡ उप꣢꣯ नो꣣ गि꣡रः꣢ शृणु꣣ रा꣡स्व꣢ स्तो꣣त्रा꣡य꣢ गिर्वणः ॥२९४

स्वर सहित पद पाठ

इ꣣मे꣢ । इ꣣न्द्र । म꣡दा꣢꣯य । ते꣣ । सो꣡माः꣢꣯ । चि꣣कित्रे । उक्थि꣡नः꣢ । म꣡धोः꣢꣯ । प꣣पानः꣢ । उ꣡प꣢꣯ । नः꣣ । गि꣡रः꣢꣯ । शृ꣣णु । रा꣡स्व꣢꣯ । स्तो꣣त्रा꣡य꣢ । गि꣣र्वणः । गिः । वनः ॥२९४॥


स्वर रहित मन्त्र

इम इन्द्र मदाय ते सोमाश्चिकित्र उक्थिनः । मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः ॥२९४


स्वर रहित पद पाठ

इमे । इन्द्र । मदाय । ते । सोमाः । चिकित्रे । उक्थिनः । मधोः । पपानः । उप । नः । गिरः । शृणु । रास्व । स्तोत्राय । गिर्वणः । गिः । वनः ॥२९४॥

सामवेद - मन्त्र संख्या : 294
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

भावार्थ -

 भा० = हे आत्मन् ! ( ते मदाय ) = तेरे हर्ष के लिये ( इमे ) = ये ( उक्थिनः सोमाः ) = ब्रह्मज्ञान सम्पन्न सोम=विद्वान् जन या समस्त ब्रह्मानन्द रस ( चिकित्रे ) = प्रतीत होते हैं। तू ( मधोः पपान ) = ब्रह्मविद्या रूप मधु कां पान कर । ( नः गिरः ) = हमारी वेदवाणियां ( उप शृणु ) = श्रवण कर । हे ( गिर्वणः ) = वेदवाणियों द्वारा भजन करने योग्य देव ! तू ( स्तोत्राय ) = गुण कीर्त्तन करने हारे पुरुष को ( रास्व ) = अभीष्ट फल दे।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वामदेव:।

देवता - इन्द्रः।

छन्दः - बृहती। 

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top