ऋग्वेद - मण्डल 10/ सूक्त 102/ मन्त्र 1
ऋषिः - मुद्गलो भार्म्यश्वः
देवता - द्रुघण इन्द्रो वा
छन्दः - पाद्निचृद्बृहती
स्वरः - मध्यमः
प्र ते॒ रथं॑ मिथू॒कृत॒मिन्द्रो॑ऽवतु धृष्णु॒या । अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥
स्वर सहित पद पाठप्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया । अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥
स्वर रहित मन्त्र
प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया । अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥
स्वर रहित पद पाठप्र । ते । रथम् । मिथुऽकृतम् । इन्द्रः । अवतु । धृष्णुऽया । अस्मिन् । आजौ । पुरुऽहूत । श्रवाय्ये । धनऽभक्षेषु । नः । अव ॥ १०.१०२.१
ऋग्वेद - मण्डल » 10; सूक्त » 102; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 20; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 20; मन्त्र » 1
विषयः - अत्र सूक्ते वृषाकृतिमतो यानस्य वर्णनमस्ति यत् खलु विद्युता चलति, काष्ठयुक्तरज्ज्वा नियन्त्रिता भवति विद्युत् तत्र मुख्यपात्रं प्रेरयति प्रेरणामनुसरद्यानमुद्गमनं करोति काष्ठानि प्रक्षिपति इत्यादि वर्णनमस्ति।
पदार्थः -
(ते मिथूकृतं रथम्) हे राजन् ! तव मिथुना-मेधाविना शिल्पिना कृतम् “मिथृ मेधाहिंसनयोः” [भ्वादि०] ततः कुः प्रत्ययो बाहुलकादौणादिकः रथं यानं (धृष्णुया-इन्द्रः-अवतु) धर्षणशीलः “सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजालः” [अष्टा० ७।१।३९] इति याच् प्रत्ययः, विद्युदग्निः-रक्षतु चालयतु वा प्रत्यक्षमुच्यते (पुरुहूत) हे बहुभिर्ह्वातव्य ! (अस्मिन् श्रवाय्ये-आजौ) अस्मिन् श्रोतव्ये प्रसिद्धे यशःप्रापणयोग्ये “श्रुधातोः आय्यः प्रत्ययः” “श्रुदक्षिस्पृहिगृहिभ्य आय्यः” [उणादि० ३।९६] सङ्ग्रामे “आजौ-सङ्ग्रामनाम” [निघ० २।१७] (धनभक्षेषु) राष्ट्रभक्षकेषु येऽस्माकं राष्ट्रं भक्षयन्ति तेषु दस्युषु “राष्ट्राणि वै धनानि” [ऐ० ८।२६] (नः-अव) अस्मान् रक्ष ॥१॥