Loading...
ऋग्वेद मण्डल - 10 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 101/ मन्त्र 12
    ऋषिः - बुधः सौम्यः देवता - विश्वे देवा ऋत्विजो वा छन्दः - निचृज्जगती स्वरः - निषादः

    कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये । नि॒ष्टि॒ग्र्य॑: पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥

    स्वर सहित पद पाठ

    कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये । नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्या॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥


    स्वर रहित मन्त्र

    कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये । निष्टिग्र्य: पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥

    स्वर रहित पद पाठ

    कपृत् । नरः । कपृथम् । उत् । दधातन । चोदयत । खुदत । वाजऽसातये । निष्टिग्र्यः । पुत्रम् । आ । च्यावय । ऊतये । इन्द्रम् । सऽबाधः । इह । सोमऽपीतये ॥ १०.१०१.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 101; मन्त्र » 12
    अष्टक » 8; अध्याय » 5; वर्ग » 19; मन्त्र » 6

    पदार्थः -
    (कपृत्) सुखेन पूर्यन्ते तृप्यन्ते ये ते “जसो लुक्” कं सुखनाम [निघ० ३।६] पृ धातोः क्विप् कर्मणि (नरः) जनाः (कपृथम्) सुखपूरकं परमात्मानम् (उद्-दधातने) उत्कृष्टतया धारयत (वाजसातये) अमृतान्नप्राप्तये “अमृतोऽन्नं वाजः” [जैमि० २।१९३] (चोदयत-खुदत) प्रेरयत प्रार्थयध्वं-क्रीडयत “खुर्द क्रीडायाम्” [भ्वादि०] रेफलोपश्छान्दसः (निष्टिग्र्यः पुत्रम्-इन्द्रम्) “न इष्टिर्यस्मिन्-निष्टिः पापम्” “पृषोदरादिनेष्टसिद्धिः” पापं पापेनोपार्जितं गिरति खादति निष्टिग्रीः ”क्रीः प्रत्ययो बाहुलकादौणादिकः” तस्य पवित्रकारकं परमात्मानं “पुत्रः यः पुनाति सः” [ऋ० १।१८१।४६ दयानन्दः] “पुवो ह्रस्वश्च क्तः प्रत्ययः” [उणादि० ४।१६५] (सबाधः) बाधासहितः (ऊतये-आच्यावय) रक्षायै प्राप्नुहि (इह सोमपीतये) अत्रानन्दरसपानाय ॥१२॥

    इस भाष्य को एडिट करें
    Top