Loading...
ऋग्वेद मण्डल - 10 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 101/ मन्त्र 11
    ऋषिः - बुधः सौम्यः देवता - विश्वे देवा ऋत्विजो वा छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने॑व चरति द्वि॒जानि॑: । वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स॑म् ॥

    स्वर सहित पद पाठ

    उ॒भे इति॑ । धुरौ॑ । वह्निः॑ । आ॒ऽपिब्द॑मानः । अ॒न्तः । योना॑ऽइव । च॒र॒ति॒ । द्वि॒ऽजानिः॑ । वन॒स्पति॑म् । वने॑ । आ । अ॒स्था॒प॒य॒ध्व॒म् । नि । सु । द॒धि॒ध्व॒म् । अख॑नन्तः । उत्स॑म् ॥


    स्वर रहित मन्त्र

    उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानि: । वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् ॥

    स्वर रहित पद पाठ

    उभे इति । धुरौ । वह्निः । आऽपिब्दमानः । अन्तः । योनाऽइव । चरति । द्विऽजानिः । वनस्पतिम् । वने । आ । अस्थापयध्वम् । नि । सु । दधिध्वम् । अखनन्तः । उत्सम् ॥ १०.१०१.११

    ऋग्वेद - मण्डल » 10; सूक्त » 101; मन्त्र » 11
    अष्टक » 8; अध्याय » 5; वर्ग » 19; मन्त्र » 5

    पदार्थः -
    (उभे धुरौ) उभौ संसारमोक्षानन्दरसौ (आपिब्दमानः) समन्तात् पिब्दमानः पाययमानः-प्रापयमाणः “पृषोदरादित्वादिष्टसिद्धिः” (वह्निः) वाहकः परमात्मा (द्विजानिः) द्वयोः संसारमोक्षयोः प्रसिद्धमानः (योना-इव) हृदयेऽन्तः-“इवोऽपि दृश्यते पदपूरणः” (चरति) विचरति (वनस्पतिं वने नि सु-आ-अस्थापयध्वम्) तं वननीयस्यात्मनः पतिं पालकं परमात्मानं वने वननीयं स्वात्मनि नियतं सुष्ठु धारयत (उत्सम्-अखनन्तः) ततः-आनन्दरसं खनन्तः-खनन्हेतोः ॥११॥

    इस भाष्य को एडिट करें
    Top