Loading...
ऋग्वेद मण्डल - 10 के सूक्त 109 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 109/ मन्त्र 1
    ऋषिः - जुहूर्ब्रह्मजाया, ऊर्ध्वनाभा वा ब्राह्मः देवता - विश्वेदेवा: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ । वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥

    स्वर सहित पद पाठ

    ते । अ॒व॒द॒न् । प्र॒थ॒माः । ब्र॒ह्म॒ऽकि॒ल्बि॒षे । अकू॑पारः । स॒लि॒लः । मा॒त॒रिश्वा॑ । वी॒ळुऽह॑राः । तपः॑ । उ॒ग्रः । म॒यः॒ऽभूः । आपः॑ । दे॒वीः । प्र॒थ॒म॒ऽजाः । ऋ॒तेन॑ ॥


    स्वर रहित मन्त्र

    तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा । वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥

    स्वर रहित पद पाठ

    ते । अवदन् । प्रथमाः । ब्रह्मऽकिल्बिषे । अकूपारः । सलिलः । मातरिश्वा । वीळुऽहराः । तपः । उग्रः । मयःऽभूः । आपः । देवीः । प्रथमऽजाः । ऋतेन ॥ १०.१०९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 109; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 1

    पदार्थः -
    (ते प्रथमाः) ते प्रमुखा देवाः (अकूपारः) आदित्यः “आदित्योऽप्यकूपार उच्यतेऽकूपारो दूरपारः” [निरु० ४।१८] आरम्भसृष्टौ वैदिकर्षिरेको वा (सलिलः) सलिलवान् ‘अकारो मत्वर्थीयश्छान्दसः’ वरुणः-अङ्गिराः प्रथमो वैदिकर्षिः (मातरिश्वा) मातरि-अन्तरिक्षे श्वसिति श्वनिति वा वायुः “मातरिश्वा वायुर्मातर्यन्तरिक्षे श्वसिति मातर्यन्तरिक्षे श्वनितीति वा” [निरु० ७।२६] प्रथमो वैदिकर्षिर्वा (वीळुहराः-तपः-उग्रः) वीळूनि हरांसि तेजांसि-यस्य सः, तपस्वी-तापवान् “मतुब्लोपश्छान्दसः” उग्रस्तीक्ष्णोऽग्निः प्रथमो वैदिकर्षिर्वा (ऋतेन) सत्यस्वरूपेण (प्रथमजाः) प्रथमोत्पन्नाः (देवीः) दिव्याः (आपः) प्राथमिका आप्तजना ब्रह्मादयः “मनुष्या वा आपश्चन्द्रमाः” [श० ७।३।१।२०] (ब्रह्मकिल्बिषे अवदन्) ब्रह्मणो ब्राह्मणस्य ब्रह्मचारिणः किल्बिषे पापनिमित्तं यद्वा पापात् पृथक् स्यादिति तदर्थं यद्वा ब्रह्मणः परमात्मनः क्रीडनवद्रचनं वेदज्ञानं तस्मिन् वेदज्ञाने “किले बुक् च” [उणादि० १।५०] “लीलैव केवलम्” [वेदान्त० ] किल श्वैत्यक्रीडनयोः’ [तुदादि०] वदन्ति वर्णयन्तीव यद्वा साक्षादुपदिशन्ति ॥१॥

    इस भाष्य को एडिट करें
    Top