ऋग्वेद - मण्डल 10/ सूक्त 109/ मन्त्र 2
ऋषिः - जुहूर्ब्रह्मजाया, ऊर्ध्वनाभा वा ब्राह्मः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुन॒: प्राय॑च्छ॒दहृ॑णीयमानः । अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥
स्वर सहित पद पाठसोमः॑ । राजा॑ । प्र॒थ॒मः । ब्र॒ह्म॒ऽजा॒याम् । पुन॒रिति॑ । प्र । अ॒य॒च्छ॒त् । अहृ॑णीयमानः । अ॒नु॒ऽअ॒र्ति॒ता । वरु॑णः । मि॒त्रः । आ॒सी॒त् । अ॒ग्निः । होता॑ । ह॒स्त॒ऽगृह्य॑ । आ । नि॒ना॒य॒ ॥
स्वर रहित मन्त्र
सोमो राजा प्रथमो ब्रह्मजायां पुन: प्रायच्छदहृणीयमानः । अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥
स्वर रहित पद पाठसोमः । राजा । प्रथमः । ब्रह्मऽजायाम् । पुनरिति । प्र । अयच्छत् । अहृणीयमानः । अनुऽअर्तिता । वरुणः । मित्रः । आसीत् । अग्निः । होता । हस्तऽगृह्य । आ । निनाय ॥ १०.१०९.२
ऋग्वेद - मण्डल » 10; सूक्त » 109; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 2
पदार्थः -
(ब्रह्मजायाम्) जायते सा जाया “जनेर्युक्” [उणादि० ४।१११ ‘या जायते’ दयानन्दः] ब्रह्मण परमात्मनः कन्याभूता यद्वा ब्रह्मचारिणो जाया विद्यात्रयी वेदरूपा सा हि तस्य जाया नान्या, तां (राजा सोमः) तत्र वेदत्रय्यां विद्यायां राजमानः प्रकाशमानः सोमः सोम्यगुणो वायुर्ऋषिः “योऽयं वायुः पवते ह्येष सोमः” [श० ७।३।१।१] (अहृणीयमानः) शान्तः सन् (पुनः प्र अयच्छत्) प्रथमं स्वयं गृहीतवान् पश्चात् ब्रह्मणे “ब्रह्मा” इति नामकाय ब्रह्मचारिणे प्रयच्छति ददाति-उपदिशति (अन्वर्तिता) अनुसरणकर्त्ता (वरुणः) अङ्गिराः-ऋषिः (मित्रः) “आदित्यः” मित्रो दाधार पृथिवीमुत द्याम् (होता-अग्निः) होतृभूतोऽग्निर्ऋषिः (हस्तगृह्य-आ निनाय) साक्षाद् यथा हस्तेन गृहीत्वा हस्ते प्रयच्छति कञ्चित् तथा विद्यात्रयी समन्तात् खलु नयति प्रापयति ॥२॥