Loading...
ऋग्वेद मण्डल - 10 के सूक्त 109 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 109/ मन्त्र 3
    ऋषिः - जुहूर्ब्रह्मजाया, ऊर्ध्वनाभा वा ब्राह्मः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् । न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

    स्वर सहित पद पाठ

    हस्ते॑न । ए॒व । ग्रा॒ह्यः॑ । आ॒ऽधिः । अ॒स्याः॒ । ब्र॒ह्म॒ऽजा॒या । इ॒यम् । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽह्ये॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥


    स्वर रहित मन्त्र

    हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् । न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥

    स्वर रहित पद पाठ

    हस्तेन । एव । ग्राह्यः । आऽधिः । अस्याः । ब्रह्मऽजाया । इयम् । इति । च । इत् । अवोचत् । न । दूताय । प्रऽह्ये । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥ १०.१०९.३

    ऋग्वेद - मण्डल » 10; सूक्त » 109; मन्त्र » 3
    अष्टक » 8; अध्याय » 6; वर्ग » 7; मन्त्र » 3

    पदार्थः -
    (अस्याः-आधिः) अस्याः खलु वेदत्रय्याः-आधातव्यः समन्ताद् धारणीयं आधानकरणीयो वा ज्ञानविषयः (हस्तेन-एव ग्राह्यः) साक्षादध्ययनेनैव ग्राह्यो हस्तगतः कर्त्तव्यः (ब्रह्मजाया इयम्-इति च-इत्-अवोचन्) इयं ब्रह्मणः परमात्मनो जायमाना कन्या तस्माज्जायमानत्वाद् यद्वा ब्राह्मणस्य प्रथमवयसि ब्रह्मचारिणो जायेति ह्यृषयो वदन्ति-उपदिशन्ति (एषा दूताय प्रह्ये न तस्थे) इयं वेदत्रयी प्रेरिताय दूताय न तिष्ठति यथा कश्चिद् राजा स्वयं नाधीत्य दूतं प्रेष्यति त्वं मम स्थाने वेदश्रवणं कुरु यजस्व वा तथा कारिताय राज्ञे नात्मानं प्रकाशयति “प्रकाशन-स्थेयाख्ययोश्च” [अष्टा० १।३।२३] इत्यात्मनेपदं तथा (क्षत्रियस्य राष्ट्रं गुपितम्) तथा राज्ञो राष्ट्रं गुपितं रक्षितं भवति वेदज्ञानश्रवणेनेत्यर्थः ॥३॥

    इस भाष्य को एडिट करें
    Top