Loading...
ऋग्वेद मण्डल - 10 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 7
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे । इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥

    स्वर सहित पद पाठ

    यः । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्तः॑ । अक्ष॑त् । सह॑सः । सू॒नो॒ इति॑ । अति॑ । सः । प्र । शृ॒ण्वे॒ । इष॑म् । दधा॑नः । वह॑मानः । अश्वैः॑ । आ । सः । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥


    स्वर रहित मन्त्र

    यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे । इषं दधानो वहमानो अश्वैरा स द्युमाँ अमवान्भूषति द्यून् ॥

    स्वर रहित पद पाठ

    यः । ते । अग्ने । सुऽमतिम् । मर्तः । अक्षत् । सहसः । सूनो इति । अति । सः । प्र । शृण्वे । इषम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥ १०.११.७

    ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 7
    अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 2

    पदार्थः -
    (सहसः सूनो-अग्ने) ओजसोऽध्यात्मबलस्योत्पादक परमात्मन् ! (ते) तव (सुमतिम्)  कल्याणीं वाचं वेदवाचम् “वाग्वै मतिः” [श०८।१।२।७] (यः मर्तः-अक्षत्) यो मनुष्यः अश्नुते स्वात्मनि धारयति (सः-अति प्रशृण्वे) सोऽति प्रश्रुतवान्-अध्यात्मगुणसम्पन्नो भवति, अथ च (इषं दधानः) कामनानुरूपं भोगं धारयन् प्राप्नुवन् सन् (सः-अश्वैः वहमानः) सः-व्याप्तिशीलैः किरणैः “अश्वाः व्याप्तिशीलाः किरणाः” [ऋ०३।६।८ दयानन्दः] प्रशस्तेन्द्रियैः, विद्युदादिभिराशुगामिभिर्वहमानः प्राप्यमाणः (द्युमान्-अमवान्-आ द्यून् भूषति) तेजस्वी-आत्मवान् “अमवान्……आत्मवान्” [निरु०६।१२] यावज्जीवनदिनानि स्वात्मानमलङ्करोति ॥७॥

    इस भाष्य को एडिट करें
    Top