ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 8
यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र । रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ॥
स्वर सहित पद पाठयत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ । रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥
स्वर रहित मन्त्र
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥
स्वर रहित पद पाठयत् । अग्ने । एषा । सम्ऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र । रत्ना । च । यत् । विऽभजासि । स्वधाऽवः । भागम् । नः । अत्र । वसुऽमन्तम् । वीतात् ॥ १०.११.८
ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 8
अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 3
पदार्थः -
(यजत्र-अग्ने) हे यजनीय सङ्गमनीय परमात्मन् ! ‘यज् धातोः-अत्रन् प्रत्ययः’ [उणा०३।१०५] (यद्) यदा (यजता देवेषु) यजनीयेषु सङ्गमनीयेषु-इन्द्रियेषु विद्वत्सु वा ‘यज् धातोः-अतच् प्रत्ययः’ [३।११०] (समितिः देवी भवाति) तव सङ्गतिः सङ्क्रान्तिर्देवी जायते (यत्-अत्र) यतोऽत्र तदा (स्वधावः) हे रसवन् परमात्मन् ! “स्वधायै त्वा रसाय त्वेत्येतत्” [श०५।४।३।७] अन्नदाता वा “स्वधा-अन्ननाम” [निघ०२।७] त्वम् (रत्ना च विभजासि) रमणीयानि सुखानि वसूनि वा वितरसि (नः-वसुमन्तं भागं वीतात्) अस्माकं धनवन्तं भागमंशं प्रापय ॥८॥