Loading...
ऋग्वेद मण्डल - 10 के सूक्त 11 के मन्त्र
1 2 3 4 5 6 7 8 9
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 11/ मन्त्र 8
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र । रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ॥

    स्वर सहित पद पाठ

    यत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ । रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥


    स्वर रहित मन्त्र

    यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥

    स्वर रहित पद पाठ

    यत् । अग्ने । एषा । सम्ऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र । रत्ना । च । यत् । विऽभजासि । स्वधाऽवः । भागम् । नः । अत्र । वसुऽमन्तम् । वीतात् ॥ १०.११.८

    ऋग्वेद - मण्डल » 10; सूक्त » 11; मन्त्र » 8
    अष्टक » 7; अध्याय » 6; वर्ग » 10; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (यजत्र-अग्ने) हे यजनीय सङ्गमनीय परमात्मन् ! (यत्) जब (यजता देवेषु) यजनीय सङ्गमनीय इन्द्रियों में या सङ्गमनीय विद्वानों में (समितिः-देवी भवाति) तेरी दिव्या सङ्गति-सङ्क्रान्ति हो जाती है (यत्-अत्र) जिससे यहाँ तब (स्वधावः) हे आनन्द रसवाले या अन्नदाता परमात्मन् ! (रत्ना विभजासि) रमणीय सुखों या वस्तुओं को देता है (नः) हमारे (वसुमन्तं भागं वीतात्) धनवाले भाग को प्राप्त करा ॥८॥

    भावार्थ

    यह सङ्गमनीय परमात्मा की समागम धारा इन्द्रियों में आ जाती है, तो आस्तिक मनस्वी को रमणीय सुख प्राप्त हो जाते हैं। मोक्ष में बसानेवाला धन भी मिल जाता है, ऐसे सङ्गमनीय परमात्मा की समागमप्रतीति राष्ट्र के विद्वानों में पहुँच जाती है, तो राजा को रत्न और अन्न प्रचुर प्राप्त होता है ॥८॥

    संस्कृत (1)

    पदार्थः

    (यजत्र-अग्ने) हे यजनीय सङ्गमनीय परमात्मन् ! ‘यज् धातोः-अत्रन् प्रत्ययः’ [उणा०३।१०५] (यद्) यदा (यजता देवेषु) यजनीयेषु सङ्गमनीयेषु-इन्द्रियेषु विद्वत्सु वा ‘यज् धातोः-अतच् प्रत्ययः’ [३।११०] (समितिः देवी भवाति) तव सङ्गतिः सङ्क्रान्तिर्देवी जायते (यत्-अत्र) यतोऽत्र तदा (स्वधावः) हे रसवन् परमात्मन् ! “स्वधायै त्वा रसाय त्वेत्येतत्” [श०५।४।३।७] अन्नदाता वा “स्वधा-अन्ननाम” [निघ०२।७] त्वम् (रत्ना च विभजासि) रमणीयानि सुखानि वसूनि वा वितरसि (नः-वसुमन्तं भागं वीतात्) अस्माकं धनवन्तं भागमंशं प्रापय ॥८॥

    इंग्लिश (1)

    Meaning

    Adorable Agni, when this holy assembly of your yajnic powers and virtues honoured among the divines meets and, O lord self-refulgent and self-sufficient, you distribute the jewels of life among them, then pray bless us too with our share of the honour and excellence of life.

    मराठी (1)

    भावार्थ

    जेव्हा सङ्गमनीय परमात्म्याच्या मिलनाची धारा इंद्रियांपर्यंत पोचते तेव्हा प्रज्ञावान आस्तिकाला रमणीय सुख प्राप्त होते. मोक्षात वसविणारे धनही मिळते. अशा सङ्गमनीय परमात्म्याच्या मिलनाची प्रतीती जेव्हा राष्ट्राच्या विद्वानांपर्यंत पोचते तेव्हा राजाला रत्ने व अन्न प्रचुर मात्रात मिळते. ॥८॥

    Top