Loading...
ऋग्वेद मण्डल - 10 के सूक्त 114 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 114/ मन्त्र 1
    ऋषिः - सध्रिर्वैरुपो धर्मो वा तापसः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम । दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥

    स्वर सहित पद पाठ

    घ॒र्मा । सम्ऽअ॑न्ता । त्रि॒ऽवृत॑म् । वि । आ॒प॒तुः॒ । तयोः॑ । जुष्टि॑म् । मा॒त॒रिश्वा॑ । ज॒गा॒म॒ । दि॒वः । पयः॑ । दिधि॑षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒हऽसा॑मानम् । अ॒र्कम् ॥


    स्वर रहित मन्त्र

    घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम । दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥

    स्वर रहित पद पाठ

    घर्मा । सम्ऽअन्ता । त्रिऽवृतम् । वि । आपतुः । तयोः । जुष्टिम् । मातरिश्वा । जगाम । दिवः । पयः । दिधिषाणाः । अवेषन् । विदुः । देवाः । सहऽसामानम् । अर्कम् ॥ १०.११४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 114; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 16; मन्त्र » 1

    पदार्थः -
    (घर्मा समन्ता त्रिवृतं वि आपतुः) अग्निसूर्याविव तपन्तौ ब्रह्मचर्येण तेजस्विनौ “घृ क्षरणदीप्त्योः” [जुहोत्यादि०] ततो मक् प्रत्ययः “घर्मग्रीष्मौ” [उणादि० १।१४९] अध्यापकोपदेशकौ स्त्रीपुरुषौ वा सर्वतो दृढाङ्गौ “समन्तं सर्वतो दृढाङ्गम्” [ऋ० ५।१।११ दयानन्दः] ऋग्यजुःसामाख्यं वेदत्रयं तत्र वर्णितं स्तुतिप्रार्थनोपासनत्रयं वा विशेषेण प्राप्नुतः (तयोः-जुष्टिं मातरिश्वा जगाम) तयोः प्रीतिं प्रति मातरिश्वा वायुरिवाध्यात्मजीवनदाता-परमात्मा प्राप्नोति प्राप्तो भवति (देवाः) अन्ये ज्ञानकामा मनुष्याः (दिवः-पयः) ताभ्यां द्योतमानस्य वेदस्य सारं रसं (दिधिषाणाः) धारयितुमिच्छन्तः “धि धारणे” [तुदादि०] सनन्ताच्चानश् (अवेषन्) स्वात्मनि व्याप्तवन्तः (सहसामानम्-अर्कं विदुः) साम्ना सह सर्वं मन्त्रम् मन्त्रभागं वेदं ज्ञातवन्तो जानन्ति वा “अर्को मन्त्रो भवति” [निरु० ५।४] ॥१॥

    इस भाष्य को एडिट करें
    Top