ऋग्वेद - मण्डल 10/ सूक्त 115/ मन्त्र 1
ऋषिः - उपस्तुतो वार्ष्टिहव्यः
देवता - अग्निः
छन्दः - विराड्जगती
स्वरः - निषादः
चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे । अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥
स्वर सहित पद पाठचि॒त्रः । इत् । शिशोः॑ । तरु॑णस्य । व॒क्षथः॑ । न । यः । मा॒तरौ॑ । अ॒पि॒ऽएति॑ । धात॑वे । अ॒नू॒धाः । यदि॑ । जीज॑नत् । अधा॑ । च॒ । नु । व॒वक्ष॑ । स॒द्यः । महि॑ । दू॒त्य॑म् । चर॑न् ॥
स्वर रहित मन्त्र
चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे । अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं१ चरन् ॥
स्वर रहित पद पाठचित्रः । इत् । शिशोः । तरुणस्य । वक्षथः । न । यः । मातरौ । अपिऽएति । धातवे । अनूधाः । यदि । जीजनत् । अधा । च । नु । ववक्ष । सद्यः । महि । दूत्यम् । चरन् ॥ १०.११५.१
ऋग्वेद - मण्डल » 10; सूक्त » 115; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 18; मन्त्र » 1
विषयः - अस्मिन् सूक्ते परमात्मा स्वोपासकानां दुःखदोषान् दूरीकरोति तथेष्टसिद्धिं च प्रयच्छति तेषां मित्रं चेत्येवमादयो विषयाः सन्ति।
पदार्थः -
(शिशोः-तरुणस्य) शंसनीयस्य प्रशंसनीयस्य “शिशुः शंसनीयो भवति” [निरु० १०।३९] नित्ययूनः-अग्नेर्ज्ञानप्रकाशस्याग्रणेतुः (चित्रः-इत्-वक्षथः) अद्भुतो हि जगद्वहनप्रतापः (यः-मातरौ धातवे) विश्वस्य मातृभूते द्यावापृथिव्यौ प्रति स्तन्यं पातुम् “धेट् पाने” ततस्तुमर्थे-“तुमर्थे से…तवेन” [अष्टा० ३।४।९] इति तवेन् प्रत्ययः (न-अप्येति) नापि गच्छति, भवेतां विश्वस्य मातरौ स एव तयोर्मातृभूतो निर्माता, अपि तु तदर्थं तु (अनूधाः) अनूधसौ व्यत्ययेनैकवचनं (यदि जीजनत्) यत्-इ-यतो हि स परमात्मा तौ विश्वस्य मातृभूते द्यावापृथिव्यौ जनयति “जनी-प्रादुर्भावे” णिजन्तात्-चङि रूपमडभावश्छान्दसः, लुङि सामान्ये काले कथं तदर्थं तयोरूधः स्यात् कथं हि स्तन्यपातुं ते प्रति गच्छेत् (अध च नु ववक्ष) अथ च कथं नु तौ द्यावापृथिव्यौ वहेत् (सद्यः-महि दूत्यं चरन्) तत्कालं महत् खलु तयोः प्रेरयितृत्वं चरन् वर्तते ॥१॥