ऋग्वेद - मण्डल 10/ सूक्त 115/ मन्त्र 2
ऋषिः - उपस्तुतो वार्ष्टिहव्यः
देवता - अग्निः
छन्दः - विराड्जगती
स्वरः - निषादः
अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑म॒: सं यो वना॑ यु॒वते॒ भस्म॑ना द॒ता । अ॒भि॒प्र॒मुरा॑ जु॒ह्वा॑ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा॑ ॥
स्वर सहित पद पाठअ॒ग्निः । ह॒ । नाम॑ । धा॒यि॒ । दन् । अ॒पःऽत॑मः । सम् । यः । वना॑ । यु॒वते॑ । भस्म॑ना । द॒ता । अ॒भि॒ऽप्र॒मुरा॑ । जु॒ह्वा॑ । सु॒ऽअ॒ध्व॒रः । इ॒नः । न । प्रोथ॑मानः । यव॑से । वृषा॑ ॥
स्वर रहित मन्त्र
अग्निर्ह नाम धायि दन्नपस्तम: सं यो वना युवते भस्मना दता । अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥
स्वर रहित पद पाठअग्निः । ह । नाम । धायि । दन् । अपःऽतमः । सम् । यः । वना । युवते । भस्मना । दता । अभिऽप्रमुरा । जुह्वा । सुऽअध्वरः । इनः । न । प्रोथमानः । यवसे । वृषा ॥ १०.११५.२
ऋग्वेद - मण्डल » 10; सूक्त » 115; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 18; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 18; मन्त्र » 2
पदार्थः -
(दन्-अपस्तमः-अग्निः-धायि) उपासकेभ्यः सुखं प्रयच्छन् ‘ददातीति दन्’ दा धातोः शतरि छन्दस्युभयार्थेत्यार्धधातुकत्वादाकारलोपः प्रशस्तकर्मवत्तमः “अपस् कर्मनाम” [निघ० २।१] अपसः शब्दाच्छान्दसो मतुब्लोपः, ततस्तमप् प्रत्ययोऽतिशयार्थे, अग्निर्ज्ञानप्रकाशकोऽग्रणेता परमात्मा (ह) पदपूरणः (नाम) वाक्यालङ्कारे-उपासकैर्धीयते धार्यते (यः-दता भस्मना वना सं युवते) दन्तेनेव दन्तप्रदर्शनवता हसननेव भाससा स्निग्धतेजसा सम्मजनीयानि “वन वनन्ति सम्भजन्ति सुखानि यैस्तानि [ऋ० ३।५।१।५ दयानन्दः] सम्मिश्रयति संयोजयति “अन्तर्गतो णिजर्थः” (स्वध्वरे) शोभनाध्यात्मयज्ञे (अभिप्रमुरा जुह्वा) अभि-संवेष्टिकया वाचा “मुर संवेष्टनेन वाचा “वागजुहुः” [तै० आ० २।१७।२] (इनः-न प्रोथमानः) सम्प्रति-ईश्वरो-व्यापकः सन् व्याप्नुवन् (यवसे वृषा) अन्नोत्पत्तये मेघ इव सुखवृष्टिकारकं भवति ॥२॥