Loading...
ऋग्वेद मण्डल - 10 के सूक्त 115 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 115/ मन्त्र 3
    ऋषिः - उपस्तुतो वार्ष्टिहव्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः

    तं वो॒ विं न द्रु॒षदं॑ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ॑न्तं प्र॒वप॑न्तमर्ण॒वम् । आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रज॑न्त॒मध्व॑नः ॥

    स्वर सहित पद पाठ

    तम् । वः॒ । विम् । न । द्रु॒ऽसद॑म् । दे॒वम् । अन्ध॑सः । इन्दु॑म् । प्रोथ॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्ण॒वम् । आ॒सा । वह्नि॑म् । न । शो॒चिषा॑ । वि॒ऽर॒प्शिन॑म् । महि॑ऽव्रतम् । न । स॒रज॑न्तम् । अध्व॑नः ॥


    स्वर रहित मन्त्र

    तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तं प्रवपन्तमर्णवम् । आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजन्तमध्वनः ॥

    स्वर रहित पद पाठ

    तम् । वः । विम् । न । द्रुऽसदम् । देवम् । अन्धसः । इन्दुम् । प्रोथन्तम् । प्रऽवपन्तम् । अर्णवम् । आसा । वह्निम् । न । शोचिषा । विऽरप्शिनम् । महिऽव्रतम् । न । सरजन्तम् । अध्वनः ॥ १०.११५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 115; मन्त्र » 3
    अष्टक » 8; अध्याय » 6; वर्ग » 18; मन्त्र » 3

    पदार्थः -
    (वः) हे मनुष्याः ! यूयम्, व्यत्ययेन द्वितीया (तं देवम्-अन्धसः-इन्दुम्) तं परमात्मदेवम् आध्यानीयं स्नेहसेक्तारं “इन्दुरिन्धतेः” (प्रोथन्तम्) पर्याप्नुवन्तं (प्रवपन्तम्) ज्ञानबीजं वपन्तं (अर्णवम्) समुद्रमिव महान्तं (विं न द्रुषदम्) वृक्षसदं पक्षीव संसारवृक्षसदं तं परमात्मानं स्तुवीध्वमिति शेषः (आसा) समन्तक्षेपणेन “आङ्पूर्वात् असु क्षेपणे” ततः क्विप् (शोचिषा) तेजसा (विरप्शिनम्) महान्तं (महिव्रतम्) महाकर्माणं (अध्वनः सरजन्तम्) मोक्षमार्गस्य स्रष्ट्रारं (वह्निम्) संसारस्य वोढारं परमात्मानं स्तुवीध्वम्, उभयत्र नकारौ पदपूरणौ ॥३॥

    इस भाष्य को एडिट करें
    Top